| YouTube Channel

पलान्न (palAnna)

 
Monier Williams Cologne
English
पलान्न
n.
rice with meat,
Suśr.
(v.r. यवान्न).
Apte Hindi
Hindi
पलान्नम्
नपुं*
पल-अन्नम् -
मांस से मिले चावल
शब्दकल्पद्रुमः
Sanskrit
पलान्नं,
क्ली,
(पलं मांसं तेन सह पक्वं अन्नम् ।शाकपार्थिवादिवत् समासः ।) मांसादि-युक्तसिद्धभक्तम् पोलाओ इति भाषा तस्यपाकप्रकारो द्रव्याणि यथा छागमांसं १शरावः घृतं शरावपादः त्वचं ३माषकम् लवङ्गं माषकम् एला ३माषकम् तण्डुलं शरावः मरिचं २तोलकम् तेजपत्रं तोलकम् कुङ्कमं १माषकम् आर्द्रकं तोलकम् लवणं ६तोलकम् धन्याकं तोलकम् द्राक्षा ०शरावपादार्द्धम् छागमांसं सूक्ष्मं थोरयित्वाशुष्कप्रलेहपाककरणानन्तरं पात्रान्तरे तेज-पत्रोपरि अल्पाखण्डगन्धद्रव्येण सह प्रथमंसज्जीकर्त्तव्यम् ततस्तण्डुलं जलेनार्द्धसिद्धंकृत्वा मण्डगालनपूर्व्वकमल्पाखण्डगन्धद्रव्येण सहतन्मांसोपरि सज्जीकर्त्तव्यम् एवं प्रकारेणवारं वारं सज्जीकृत्य तदुपरि अवशिष्टघृत-क्षेपणेन दण्डद्वयं तप्ताङ्गारोपरि रक्षेत् इतिपाकराजेश्वरः
*
अत्र मांसस्थाने मत्स्य-फलमूलादिकं गन्धद्रव्येण सह दधियोगः घृत-परिमाणस्याधिक्यञ्च भवितुमर्हति
वाचस्पत्यम्
Sanskrit
पलान्न
न०
पलमिश्रणेन पक्वमन्नं शा० त० (पोलाओ)ख्याते मांसादिमिश्रणेन पक्वान्नभेदे तत्र द्रव्यादिपाकरा-जेश्वरे उक्तानि यथा “शरावमात्रं छागमांसं तत्पादमितंघृतम् त्रिमाषकं त्वचं लवङ्गमेलाफलञ्च शरावमिता-स्तण्डुलाः मरिचं तोलकद्वयम् एकमाषकं कुङ्कुमम् ।आद्रकं तोलकद्वयमात्रं षट्तोलकं लवणम् शरावार्द्ध-प्रादमिता दाक्षा” तत्पाकप्रकारो यथा “छागमांससूक्ष्मं थोरयित्वा शुष्कप्रलेहपाककरणानन्तरं पात्रान्तरेतेजपत्रोपरि अल्पाखण्डगन्धद्रव्येण सह प्रथमं सज्जीकर्त्तव्यम् ततस्तण्डुलं जलेनार्द्धसिद्धं कृत्वा मण्डगा-लनपूर्वकमल्पाखण्डगन्धद्रव्येण सह तन्मांसोपरि सज्जीकर्त्तव्यम् एवंप्रकारेण वारंवार सज्जीकृत्य तदुपरिअबशिष्टघृतक्षेपणेन दण्डद्वयं तप्ताङ्गारोपरि रक्षेत्”