| YouTube Channel

पललं (palalaM)

 
शब्दकल्पद्रुमः
Sanskrit
पललं,
क्ली,
(पलति पल्यतेऽनेन वा पल गतौ+ “वृषादिभ्यश्चित् ।” उणां १०८ इतिकलच् ।) मांसम् इत्यमरः ३३
(यथा, गारुडे १८१ अध्याये ।“मार्ज्जारपललं विष्ठा हरितालञ्च भावितम् ।छागमूत्रेण तल्लिप्तो मूषिको मूषिकान् हरेत्
”)पङ्कम् (यथा, गोः रामायणे ८७ २६ ।“दोषपङ्कनिमग्नं त्वामयशःपललावृतम् ।सर्व्वथा मानुषो रामस्त्वामन्तमुपनेष्यति
”)तिलचूर्णम् इति मेदिनी ले, १०४ ।“पललं तिलकल्कं स्यात्तिलचूर्णञ्च पिष्टकः ।पललं मधुरं रुच्यं पित्तास्रबलपुष्टिदम्
”इति राजनिर्घण्टः
सैक्षवतिलचूर्णम् तिलकुटा इति भाषा ।यथा, वैद्यके ।“पललन्तु समाख्यातं सैक्षवं तिलपिष्टकम् ।पललं मलकृद् वृष्यं वातघ्नं कफपित्तकृत्
बृंहणं गुरु वृष्यञ्च स्निग्धं मूत्रनिवर्त्तकम्