| YouTube Channel

पलं (palaM)

 
शब्दकल्पद्रुमः
Sanskrit
पलं,
क्ली,
(पलतीति पल + अच् ।) आमिषम् ।कर्षचतुष्टयम् इत्यमरः २०१
८६
तत्तु शास्त्रे तोलकचतुष्टयम् वैद्यके अष्ट-तोलकम् लौकिके साष्टरक्तिद्विमाषकतोलक-त्रितयम् तत्पर्य्यायः मुष्टिः प्रकुञ्चः ३चतुर्थिका विल्वम् षोडशिकाम्रम् इतिवैद्यकपरिभाषा
यथा, तिथ्यादितत्त्वे ।“पलन्तु लौकिकैर्मानैः साष्टरक्तिद्बिमाषकम् ।तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम्
”विघटिका इति राजनिर्घण्टः
सा तुघटिकाषष्टिभागैकभागः षष्टिविपलश्च पल-दण्डयोः प्रमाणन्तु ।“दशगुर्व्वक्षरोच्चारकालः प्राणः षडात्मकैः ।तैः पलं स्यात्तु तत्षष्ट्या दण्ड इत्यभिधीयते
”तेन ।“मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीःकान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं मत्वा रात्रौ चेत् ।क्षुत्क्षामः प्राटंश्चेतश्चेतो राहुः क्रूरः प्राद्या-त्तस्माद्धान्ते हर्म्म्यस्यान्ते शय्यैकान्ते कर्त्तव्या
”अस्यैकपाठात् पलं षष्ठिपाठाद्दण्डः इतिज्योतिस्तत्त्वम्