पर्व्वतः (parvvataH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritपर्व्वतः, (पर्व्वति पूरयतीति । पर्व्व पूरणे +“भृमृदृशियजिपर्व्वीति ।” उणां । ३ । ११० ।इति अतच् ।) यद्वा, पर्व्वणि भागाः सन्त्यत्र ।पाहाड इति भाषा ॥
तत्पर्य्यायः । महीध्रः २शिखरी ३ क्ष्माभृत् ४ अहार्य्यः ५ धरः ६अद्रिः ७ गोत्रः ८ गिरिः ९ ग्रावा १०अचलः ११ शैलः १२ शिलोच्चयः १३ । इत्य-मरः । २ । ३ । १ ॥
स्थावरः १४ सानुमान् १५पृथुशेखरः १६ धरणीकीलकः १७ कुट्टारः १८जीमूतः १९ धातुभृत् २० भूधरः २१ स्थिरः २२कुलीरः २३ कटकी २४ शृङ्गी २५ निर्झरी २६अगः २७ नगः २८ दन्ती २९ । इति शब्द-रत्नावली ॥
धरणीध्रः ३९ भूभृत् ३१ क्षिति-भृत् ३२ अवनीधरः ३३ कुधरः ३४ धराधरः ३५प्रस्थवान् ३६ वृक्षवान् ३७ । इति राज-निर्घण्टः ॥
* ॥
सुमेरोः पूर्व्वे पर्व्वता यथा, --“शीतान्तश्चक्रमुञ्जश्च कुलीरोऽश्वश्च कङ्कवान् ।मणिशैलोऽथ वृषवान् महानीलो भवाचलः ॥
सुबिन्दुर्मन्दरो वेणुः सुमेषो निमिषस्तथा ।देवशैलस्य पूर्व्वेण मन्दरस्य महाचलाः ॥
” * ॥
सुमेरोर्दक्षिणे पर्व्वता यथा, --“त्रिकूटः शिखराद्रिश्च कलिङ्गोऽथ पतङ्गकः ।रुचकः सानुमांश्चैव ताम्रकोऽथ विशाखवान् ॥
श्वेतोदरः समलश्च वसुधारश्च रत्नवान् ।एकशृङ्गो महाशैलो गजशैलः पिशाचकः ॥
पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः ।इत्येते दक्षिणे पार्श्वे मेरोः प्रोक्ता महाचलाः ॥
”सुमेरोः पश्चिमे पर्व्वता यथा, --“सुचक्षुः शिशिरश्चैव वैदूर्य्यः पिङ्गलस्तथा ।पिञ्जरोऽथ तथा भद्रः सुरसः कपिलो मधुः ॥
अञ्जनः कुक्कुटः कृष्णः पाण्डुरश्चाचलोत्तमः ।सहस्रशिखरश्चाद्रिः पारिपात्रः स शृङ्गवान् ॥
पश्चिमेन तथा मेरोर्विष्कम्भात् पश्चिमाद्वहिः ।एतेऽचलाः समाख्याताः शृणुष्वातस्तथो-त्तरान् ॥
”सुमेरोरुत्तरे पर्व्वता यथा, --“शङ्खकूटोऽथ ऋषभो हंसनाभौ तथाचलौ ।कपिलेन्द्रस्तथा शैलः सानुमान्नील एव च ॥
शतशृङ्गः स्वर्णशृङ्गः तुन्नाको मेघपर्व्वतः ।विराजाख्यो वराहाद्रिर्मयूरो रुचिरस्तथा ॥
इत्येते कथिता ब्रह्मन्मेरोरुत्तरतो नगाः ॥
”इति माकण्डेयपुराणम् ॥
* ॥
सप्तकुलपर्व्वतादि यथा, --“सप्त येऽस्मिन् महापर्व्वा विस्तृताः कुलपर्व्वताः ।महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥
विन्ध्यश्च पारिपात्रश्च इत्येते कुलपर्व्वताः ।तेषां सहस्रशश्चान्ये पर्व्वतास्तु समीपतः ॥
अविज्ञाताः पर्व्ववन्तो विपुलाश्चित्रसानवः ।अन्ये तेभ्योऽपरिज्ञाता ह्रस्वाः स्वल्पोपजीविनः ॥
तैर्विमिश्रा जनपदा आर्य्या म्लेच्छाश्च सर्व्वशः ॥
”इति मात्स्ये ९५ अध्यायः ॥
* ॥
विंशतिः श्रेष्ठपर्व्वता यथा, --“हिमवान् हेमकूटश्च निषधो नीलपर्व्वतः ।श्वेतश्च भृङ्गवान् मेरुर्माल्यवान् गन्धमादनः ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा ॥
लोकालोको महांस्तेषु तथैवोत्तरमानसः ।एते विंशतिर्विख्याताः पर्व्वतास्तस्थुषां वराः ॥
”जम्बु द्वीपवर्षविभाजकपर्व्वता यथा, --“लङ्कादेशाद्धिमगिरिरुदक् हेमकूटश्च तस्मा-त्तस्माच्चान्यो निषध इति ते सिन्धुपर्य्यन्तदैर्घ्याः ।एवं सिद्धादुदगपि पुराच्छृङ्गवच्छुक्लनीलावर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान् ॥
”इति सिद्धान्तशिरोमणिः ॥
* ॥
पर्व्वतानां पक्षोत्पत्तिर्यथा, --“ततोऽद्रयो जातपक्षा विष्णोश्चैव तु मायया ।प्रस्थिता मेदिनीं त्यक्त्वा यथापूर्व्वं निवेशिताः ॥
तत् स्थानमसुराणान्तु धात्रादिष्टं जलार्णवे ।प्रतीच्यां पर्व्वताः सर्व्वे निममज्जुर्यथा गजाः ॥
तत्रासुरेभ्यः शंसुस्ते आधिपत्यं सुराश्रयम् ।तच्छ्रत्वैवासुराः सर्व्वे चक्रुरुद्योगमुत्तमम् ॥
* ॥
”युद्धजयानन्तरं तेषां पक्षोच्छेदो यथा, --“धरण्यान्तु गिरीन् स्याप्य स्वेषु स्थानेषु गोःपतिः ।चिच्छेद पविना पक्षान् सर्व्वेषां भुवि चारिणाम् ॥
एकः सपक्षो मैनाकः सुरैस्तत्समये कृतः ॥
”इत्यग्निपुराणम् ॥
* ॥
पर्व्वतानां स्थावरजङ्गमरूपे यथा, --“नद्यश्च पर्व्वताः सर्व्वे द्विरूपाश्च स्वभावतः ।तोयं नदीनां रूपन्तु शरीरमपरन्तथा ॥
स्थावरं पर्व्वतानान्तु रूपं कायस्तथापरः ।शुक्तीनामथ कम्बूनां तथैवान्तर्गता तनूः ॥
वहिरस्थिस्वरूपन्तु सर्व्वदैव प्रवर्त्तते ।एवं जलं स्थावरश्च नदीपर्व्वतयोस्तथा ॥
अन्तर्व्वसति कायस्तु सततं नोपपद्यते ।आप्याय्यते स्थावरेण शरीरं पर्व्वतस्य तु ॥
तथा नदीनां कायस्तु तोयेनाप्याय्यते सदा ।नदीनां कामरूपित्वं पर्व्वतानान्तथैव च ॥
जगत्स्थित्योः पुरा विष्णुः कल्पयामास यत्नतः ।तोयहानौ नदीदुःखञ्जायते सततन्दिजाः ॥
विशीर्णे स्थावरे दुःखं जायते गिरिकायगम् ॥
”इति कालिकापुराणे २२ अध्यायः ॥
* ॥
अतः परं पर्व्वतेषु देवानामवकाशा वंर्ण्यन्ते ।तत्र योऽसौ शान्ताख्यः पर्व्वतस्तस्योपरि महे-न्द्रस्य क्रीडास्थानं तत्र देवराजस्य पारिजातक-वृक्षवनम् । तस्थ पूर्व्वपार्श्वे कुञ्जरो नाम गिरिःतस्योपरि दानवानामष्टौ पुराणि च । तथावज्रकेतुपर्व्वते राक्षसानामनेकानि पुराणि ते चनाम्ना नीलकाः कामरूपिणः महानीले चशैलेन्द्रे पुराणि पञ्चदशसहस्राणि किन्नराणांख्यातानि तत्र देवताश्चन्द्रादयो राजानः पञ्च-दश किन्नराणां गर्व्विताः तानि सौवर्णानि विल-प्रवेशनानि च पुराणि चन्द्रोदये च पर्व्वतवरेनागानामधिवासः ते च विलप्रवेशासेवितेषुवैनतेयविषयावर्त्तिनो व्यवस्थितानुरागे च दान-वेन्द्रा व्यवस्थिता वेणुवत्यपि विद्याधरपुरत्रयंत्रिंशद्योजनशतविस्तीर्णमेकैकं तावदायतंउलूकरोमसममहावेत्रादयश्च राजानो विद्या-धराणाञ्च एकैके च शैलराजनि स्वयमेव गरुडोव्यवस्थितः । कुञ्जरे तु पर्व्वतवरे नित्यं पशुपतिःस्थितः वृषभाङ्को महादेवः शङ्करो योगिनांप्रभुः अनेकगुणभूतकोटिसहस्रपरिवारो भग-वानादिपुरुषो व्यवस्थितः । वसुधारे चायुष्मतांवसूनाञ्च समावासः वसुधाररत्नधारयोर्मूर्द्ध्निअष्टौ सप्त च संख्यया पुराणि वसुसप्तर्षीणाञ्च ।एकशृङ्गे च पर्व्वतोत्तमे प्रजापतेः स्थानं चतु-र्व्वक्त्रस्य ब्रह्मणः । गजपर्व्वते च महाभूतपरि-वृता स्वयमेव भगवती तिष्ठति । वसुधारे चपर्व्वतवरे मुनिसिद्धविद्याधराणामायतनं चतु-रशीत्यपरपुर्य्यो महाप्राकारतोरणाः तत्रचानेकपव्वता नाम गन्धर्व्वा युद्धशालिनो वसन्तितेषाञ्चाधिपतिर्देवो राजराजैकपिङ्गलः । सुर-राक्षसाः पञ्चकूटे दानवाः शतशृङ्गे यक्षाणांपुरशतम् । प्रभेदकस्य पश्चिमेन देवदानवसिद्धा-दीनां पुराणि तस्य गिरेर्मूर्द्ध्नि महती सोमशिलातिष्ठति तस्याञ्च पर्व्वणि पर्व्वणि सोमः स्वयमेवा-वतरति । तस्यैवोत्तरपार्श्वे त्रिकूटं नाम तत्रब्रह्मा तिष्ठति क्वचित्तत्र च वह्न्यायतनं तत्रमूर्त्तिमान् वह्निरुपास्यते देवैः । उत्तरे च शृङ्गाक्षेपर्व्वतवरे देवतानामायतनानि पूर्व्वेण नारा-यणस्यायतनं मध्ये ब्रह्मणः शङ्करस्य च पश्चिमेतत्र यक्षादीनां कानिचित् पुराणि । तस्यचोत्तरतीरे जातुच्छमहापर्व्वते त्रिंशद्योजन-मण्डलं नन्दजं नाम सरस्तत्र नन्दो नाम नाग-राजो वसति शतशीर्षप्रचण्ड इति । इत्येतेऽष्टौदेवपर्व्वता विज्ञेयाः तेनानुक्रमेण हेमरजतरत्न-वैदूर्य्यमनःशिलादिवर्णाः । इत्यञ्च पृथ्वी लक्ष-कोटिशतानेकसंख्याता पूर्णा तेषु च सिद्धविद्या-धराणां निलयाः । तद्यथा मेरोः पार्श्वतःकेशरवलयालबालं सिद्धलोकेति कीर्त्त्यते इयञ्चपृथ्वी पद्माकारेण व्यवस्थिता एष सर्व्वपुराणेषुक्रमः सामान्यः प्रतिपाद्यते । इति वराहपुरा-णम् ॥
* ॥
हिमालयादिपर्व्वतवासिनो यथा, --“रक्षःपिशाचा यक्षाश्च सर्व्वे हैमवतास्तु ते ।हेमकूटे तु गन्धर्व्वा विज्ञेयाश्चाप्सरोगणाः ॥
सर्व्वे नागाश्च निषधे शेषवासुकितक्षकाः ।महामेरौ त्रयस्त्रिंशत् क्रीडन्ते याज्ञिकाः सुराः ॥
नीले तु वैदूर्य्यमये सिद्धा ब्रह्मर्षयोऽवसन् ।दैत्यानां दानवानाञ्च श्वेतपर्व्वत उच्यते ॥
शृङ्गवान् पर्व्वतश्रेष्ठः पितॄणां प्रतिसञ्चरः ।इत्येतानि मयोक्तानि नव वर्षाणि भागशः ॥
”इति मात्स्ये ९५ अध्यायः ॥
* ॥
अथ पर्व्वतनदीजलगुणाः ।“हिमवत्प्रभवा याश्च जलं तास्वमृतोपमम् ।पारिपात्रभावा याश्च बिन्ध्यर्क्षप्रभवाश्च याः ॥
शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च ।चन्द्रार्ककरसंस्पृष्टं वायुनास्फालितां मुहुः ॥
पर्व्वतोपरि यद्बारि समं पौरन्दरेण तत् ।तस्यानुगुणमुद्दिष्टं शैलप्रस्रवणोद्भवम् ॥
लेखनं दीपनं रूक्षं किञ्चिद्वातप्रकोपणम् ॥
”इति राजवल्लभः ॥
* ॥
पर्व्वते वर्णनीयानि यथा, --“शैले मेघौषधीधातुवंशकिन्नरनिर्झराः ।शृङ्गपादगुहारत्नवनजीवाद्युपत्यकाः ॥
”इति कविकल्पलता ॥
* ॥
अथ कैलासपर्व्वतवर्णनम् ।“मध्ये हिमवतः पृष्ठे कैलासो नाम पर्व्वतः ।तस्मिन्निधिपतिः श्रीमान् कुवेरः सह राक्षसैः ॥
अप्सरःसहितो राजा मोदते ह्यलकाधिपः ।कैलासपादसम्मूतं पुण्यं शीतजलं शुभम् ॥
मन्दोदकं नाम सरः पयस्तु दधिसन्निभम् ।तस्मात् प्रभवते दिव्या नदी मन्दाकिनी शुभा ॥
दिव्यञ्च चन्दनन्तत्र तस्यास्तीरे महद्बनम् ।प्रागुत्तरेण कैलासं दिव्यं सौगन्धिकं गिरिम् ॥
सर्व्वधातुमयं दिव्यं शबलं पर्व्वतं प्रति ।चन्द्रप्रभो नाम गिरिः शुपुभे रत्नसन्निभः ॥
तत्समीपे सरो दिव्यमच्छोदन्नाम विश्रुतम् ।तस्मात् प्रभवते दिव्या नदी ह्यच्छोदका शुभा ॥
तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शुभम् ।तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः ॥
यक्षसेनापतिः क्रूरैर्गुह्यकैः परिवारितः ।पुण्या मन्दाकिनी चैव नदी ह्यच्छोदका शुभा ॥
महीमण्डलमध्ये तु प्रविष्टा तु महोदधिम् ।कैलासाद्दक्षिणप्राच्यां शिवं सर्व्वौषधिं गिरिम् ।मनःशिलामयं दिव्यं शबलं पर्व्वतं प्रति ॥
लोहितो हेमशृङ्गस्तु गिरिः सूर्य्यप्रभो महान् ।तस्य पादे महद्दिव्यं लोहितं सुमहत् सरः ॥
तस्मात् प्रभवते पुण्यो लोहितश्च नदो महान् ।देवारण्यं विशोकञ्च तस्य तीरे महद्वनम् ॥
तस्मिन् गिरौ निवसति यक्षो मणिधरो बली ।सौम्यैः स धार्म्मिकैश्चैव गुह्यकैः परिवारितः ॥
* ॥
कैलासात् पश्चिमोदीच्यां ककुद्मानोषधीगिरिः ॥
ककुद्मति च रुद्रस्य चोत्पत्तिस्त्रिककुद्मिनः ।तदञ्चनं त्रैककुदं शैलं त्रिककुदं प्रति ॥
सर्व्वधातुमयस्तत्र सुमहद्वैद्युतो गिरिः ।तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम् ॥
तस्मात् प्रभवते पुण्या सरयूर्लोकपावनी ।तस्यास्तीरे वनं दिव्यं वैभ्राजन्नाम विश्रुतम् ॥
कुवेरानुचरस्तस्मिन् प्रहेतितनयो बली ।नाम्ना वै ब्रह्मधामेति राक्षसोऽनन्तविक्रमः ॥
* ॥
कैलासात् पश्चिमामाशां दिव्यः सर्व्वौषधिर्गिरिः ।अरुणः पर्व्वतश्रेष्ठो रुक्मधातुविभूषितः ॥
भवस्य दयितः श्रीमान् पर्व्वतो हेमसन्निभः ।शातकौम्भमयैर्दिव्यैः शिलाजालैः समन्ततः ॥
शतसंख्यैस्तापनीयैः शृङ्गैर्द्दिवमिवोल्लिखन् ।युक्तवान् सुमहद्दिव्यैर्दुर्गशैलो महोच्छ्रितः ॥
तस्मिन् गिरौ निवसति गिरीशो धूम्रलोहितः ॥
तस्य पादे महद्दिव्यं सरः काञ्चनबालुकम् ॥
तस्य पादात् प्रभवति शैलोदं नाम तत् सरः ।तस्मात् प्रभवते पुण्या नदी शैलोदका शुभा ॥
सा वङ्क्षुशीतयोर्मध्ये प्रयिष्ठा पश्चिमोदधिम् ।अभ्युत्तरेण कैलासं शिवं सर्व्वौषधिं गिरिम् ।गौरन्तु पर्व्वतश्रेष्ठं हरितालमयं प्रति ।हिरण्यशृङ्गः सुमहान् दिव्यौषधिमयो गिरिः ॥
तस्य पादे महद्दिव्यं सरः काञ्चनबालुकम् ।रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥
गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः ।दिवं यास्यन्ति मे पूर्व्वे गङ्गातोयपरिप्लुताः ॥
तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता ॥
”इति मात्स्ये १०१ अध्यायः ॥
अथ दशधा कृत्रिमपर्व्वतदानम् ।“प्रथमो धान्यशैलः स्याद्द्बितीयो लवणाचलः ।गुडाचलस्तृतीयस्तुं चतुर्थो हेमपर्व्वतः ॥
पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्व्वतः ।सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः ॥
राजतो नवमस्तद्बद्दशमः शर्कराचलः ।वक्ष्ये विधानमेतेषां यथावदनुपूर्व्वशः ॥
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।शुक्लपक्षे तृतीयायामुपरागे शशिक्षये ॥
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः ।शुक्लायां पञ्चदश्यां वा पुष्यर्क्षे वा विधानतः ॥
धान्यशैलादयो देया यथाशास्त्रं विजानता ।तीर्थे वायतने वापि गोष्ठे वा भवनाङ्गने ॥
मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम् ।प्रागुदक्प्लवनञ्चैव प्राङ्मुखं वा विधानतः ॥
गोमयेनानुलिप्तायां भूमावास्तीर्य्य वै कुशान् ।तन्मध्ये पर्व्वतं कुर्य्याद्बिष्कम्भपर्व्वतान्वितम् ॥
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः ।मध्यमः पञ्चशतिकः कनिष्ठः स्यात्त्रिभिः शतैः ॥
मेरुर्महाब्रीहिमयस्तुमध्येसुवर्णवृक्षत्रयसंयुतः स्यात् ।पूर्व्वेण मुक्ताफलवज्रयुक्तोयाम्येन गोमेदकपुष्परागैः ॥
पश्चाच्च गारुत्मतनीलरत्नैःसौम्येन वैदूर्य्यसरोजरागैः ।श्रीखण्डखण्डैरभितः प्रवाल-लतान्वितः शुक्तिशिलातलः स्यात् ॥
ब्रह्माथ विष्णुर्भगवान् मुरारि-र्दिवाकरोऽप्यत्र हिरण्मयः स्यात् ।मूर्द्धन्यवस्थानममत्सरेणकार्य्यन्त्वनेके च पुनर्दिवीशाः ॥
चत्वारि शृङ्गाणि च राजतानिनितम्बभागेष्वपि राजतः स्यात् ।तथेक्षुवंशावृतकन्दरस्तुघृतोदकप्रस्रवणश्च दिक्षु ॥
शुक्लाम्बराण्यम्बु धरावली स्यात्पूर्व्वेण नीलानि च दक्षिणेन ।वासांसि पश्चादथ कर्व्वुराणिरक्ताणि चैवोत्तरतो घनाली ॥
रौप्यान्महेन्द्रप्रमुखानथाष्टौसंस्थाप्य लोकाधिपतीन् क्रमेण ।नानाफलाली च समन्ततः स्या-न्मनोरमं माल्यविलेपनञ्च ॥
वितानकञ्चोपरि पञ्चवर्ण-मम्लानपुष्पाभरणं सितं वा ।इत्थं निवेश्यामरशैलमग्र्य-मतस्तु विष्कम्भगिरीन् क्रमेण ॥
तुरीयभागेण चतुर्द्दिशञ्चसंस्थापयेत् पुष्पविलेपनाढ्यान् ॥
पूर्व्वेण मन्दरमनेकफलावलीभि-र्युक्तं यवैः कनकभद्रकदम्बचिह्नम् ।कामेन काञ्चनमयेन विराजमान-माकारयेत् कुसुमवस्त्रविलेपनाढ्यम् ॥
क्षीरारुणोदसरसाथ वनेन चैवरौप्येण शक्तिघटितेन विराजमानम् ।याम्येन गन्धमदनश्च निवेशनीयोगोधूमसञ्चयमयः कलधौतजो वा ॥
हैमेन यक्षपतिना हृतमानसेनवस्त्रैश्च राजतवनेन च संयुतः स्यात् ।पश्चात्तिलाचलमनेकसुगन्धिपुष्पंसौवर्णपिप्पलहिरण्मयहंसयुक्तम् ॥
आकारयेद्रजतपुष्पवनेन तद्व-द्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे ।संस्थाप्य तं विपुलशैलमथोत्तरेणशैलं सुपार्श्वमपि ताम्रमयं सुवस्त्रम् ॥
पुष्पैश्च हेमवटपादपशेखरन्त-माकारयेत् कनकधेनुविराजमानम् ।माक्षीकभद्रसरसा च वनेन तद्व-द्रौप्येण भास्वरवता च युतं विधाय ॥
होमश्चतुर्भिरथ वेदपुराणविद्भि-र्दान्तैरनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः ।पूर्व्वेण हस्तमितमत्र विधाय कुण्डंकार्य्यन्तिलैर्यवघृतेन समित्कुशैश्च ॥
रात्रौ च जागरमनुद्धतगीततूर्य्यै-रावाहनञ्च कथयामि शिलोच्चयानाम् ।त्वं सर्व्वदेवगणधामनिधे ! विरुद्ध-मस्मद्गृहेष्वमरपर्ब्बत ! नाशयाशु ॥
क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नःसंपूजितः परमभक्तिमता मया हि ॥
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः ।मूर्त्तामूर्त्तजगद्बीजस्त्वं नः पाहि सनातनः ॥
यस्मात्त्वं लोकपालानां विश्वमूर्त्तेश्च मन्दिरम् ।रुद्रादित्यवसूनाञ्च तस्माच्छान्तिं प्रयच्छ मे ॥
यस्मादशून्यममरैर्नारीभिश्च शिरस्तव ।तस्मान्मामुद्धराशेषदुःखसंसारसागरात् ॥
एवमभ्यर्च्च्य तं मेरुं मन्दरञ्चाभिपूजयेत् ।यस्माच्चैत्ररथेन त्वं भद्राश्वे च विशेषतः ।शोभसे मन्दर ! क्षिप्रमतस्तुष्टिकरो भव ॥
यस्माच्चूडामणिर्जम्बुद्बीपे त्वं गन्धमादन ! ।गन्धर्व्ववनशोभावांस्ततः कीर्त्तिर्दृढास्तु मे ॥
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च ।हिरण्मयश्च शिखरस्तस्मात् पुष्टिर्ध्रुवास्तु मे ॥
उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च ।सुपार्श्व ! राजसे नित्यमतः श्रीरक्षयास्तु मे ॥
एवमामन्त्र्य तान् सर्व्वान् प्रभाते विमले पुनः ।स्नात्वाथ गुरवे दद्यान्मध्यमं पर्व्वतोत्तमम् ॥
विष्कम्भान् पर्व्वतान्दद्यादृत्विग्भ्यः क्रमशो मुने ! ।गावो देयाश्चतुर्व्विंशदथवा दश नारद ! ॥
शक्तितः सप्त चाष्टौ वा पञ्च दद्यादशक्तिमान् ।एकापि गुरवे देया कपिलाथ पयस्विनी ।पर्व्वतानामशेषाणामेष एव विधिः स्मृतः ॥
त एव पूजने मन्त्रास्त एवोपस्कराः स्मृताः ।ग्रहाणां लोकपालानां ब्रह्मादीनाञ्च सर्व्वदा ॥
स्वमन्त्रेणैव सर्व्वेषु होमः शैलेषु पठ्यते ।उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते ॥
विधानं सर्व्वशैलानां क्रमशः शृणु नारद ! ।दानकाले च ये मन्त्राः पर्व्वतेषु च यत् फलम् ॥
अन्नं ब्रह्म यतः प्रोक्तमन्नं प्राणाः प्रकीर्त्तिताः ।अन्नाद्भवन्ति भूतानि जगदन्नेन वर्त्तते ॥
अन्नमेव यतो लक्ष्मीरन्नमेव जनार्द्दनः ।धान्यपर्व्वतरूपेण पाहि तस्मान्नगोत्तम् ! ॥
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् ।मन्वन्तरशतं साग्रं देवलोके महीयते ॥
अप्सरोगणगन्धर्व्वैराकीर्णेन विराजितः ।विमानेन दिवः पृष्ठमायाति सुरसेवितम् ॥
ततः कर्म्मक्षये राज्यमाप्नोतीह न संशयः ॥
१ ॥
अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम् ।यत्प्रदाता नरो लोकं प्राप्नोति शिवसंयुतम् ॥
उत्तमः षोडशद्रोणः कर्त्तव्यो लवणाचलः ।मध्यमः स्यात्तदर्द्धेन चतुर्भिरधमः स्मृतः ॥
वित्तहीनो यथाशक्त्या द्रोणादूर्द्ध्वन्तु कारयेत् ।चतुर्थांशेन विष्कम्भान् पर्व्वतान् कारयेत् पृथक् ॥
विधानं पूर्व्ववत् कुर्य्यात् ब्रह्मादीनाञ्च सर्व्वदा ।तद्वद्धेमतनून् सर्व्वान् लोकपालान्निवेशयेत् ॥
सरांसि कामदेवादींस्तद्वच्चात्र निवेशयेत् ।कुर्य्याज्जागरमत्रापि दानमन्त्रं निबोधत ॥
सौभाग्यरससंभूतो यतोऽयं लवणो रसः ।तथात्मकत्वेन च मां पाहि पापान्नगोत्तम ! ॥
यस्मादन्नरसाः सर्व्वे सोत्कटा लवणं विना ।प्रियश्च शिवयोर्नित्यं तस्माच्छान्तिप्रदो भव ॥
विष्णुदेहसमुद्भूतो यस्मादारोग्यवर्द्धनः ।तस्मात् पर्व्वतरूपेण पाहि संसारसागरात् ॥
अनेन विधिना यस्तु दद्याल्लवणपर्व्वतम् ।उमालोके वसेत् कल्पं ततो याति परां गतिम् ॥
२ ॥
अतः परं प्रवक्ष्यामि गुडपर्व्वतमुत्तमम् ।यत्प्रदानान्नरः स्वर्गमाप्नोति सुरपूजितः ॥
उत्तमो दशभिर्भारैर्सध्यमः पञ्चभिर्म्मतः ।त्रिभिर्भारैः कनिष्ठः स्यात्तदर्द्धेनाल्पवित्तवान् ॥
तद्वदामन्त्रणं पूजां हैमवृक्षसुरार्च्चनम् ।विष्कम्भपर्व्वतास्तद्वत् सरांसि वनदेवताः ॥
होमजागरणन्तद्वत् लोकपालाधिवासनम् ।धान्यपर्व्वतवत् कुर्य्यादिमं मन्त्रमुदीरयेत् ॥
यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्द्दनः ।सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ॥
प्रणवः सर्व्वमन्त्राणां नारीणां पार्व्वती यथा ।तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥
मम तस्मात् परां लक्षीं गुडपर्व्वत ! देहि वै ।यस्मात् सौभाग्यदायिन्या भ्राता त्वं गुडपर्व्वत ! ॥
निवासस्त्वं हि पार्व्वत्यास्तस्मान्मां पाहि सर्व्वदा ।अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम् ॥
पूज्यमानः सगन्धर्व्वैर्गौरीलोके महीयते ।पुनः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ॥
आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः ॥
३ ॥
अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् ।यस्य प्रदानाद्भुवनं वैरिञ्चं याति मानवः ॥
उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः ।तदर्द्धेनाधमस्तद्बदल्पवित्तोऽपि शक्तितः ॥
दद्यादेकपलादूर्द्ध्वं यथाशक्त्या विमत्सरः ।घान्यपर्व्वतवत् सर्व्वं विदध्यान्मुनिपुङ्गव ! ॥
विष्कम्भशैलांस्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत् ।नमस्त ब्रह्मबीजाय ब्रह्मगर्भाय वै नमः ॥
यस्मादनन्तफलदस्तस्मात् पाहि शिलोच्चय ! ।यस्मादग्नेरपत्यं त्वं तस्माद्रत्नं जगत्पते ! ॥
हेमपर्व्वतरूपेण तस्मात् पाहि नगोत्तम ! ॥
अनेन विधिना यस्तु दद्यात् कनकपर्व्वतम् ॥
स याति परमं ब्रह्मलोकमानन्दकारकम् ।तच कल्पशतन्तिष्ठेत्ततो याति परां गतिम् ॥
४ ॥
अतः परं प्रवक्ष्यामि तिलशैलं विधानतः ।यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम् ॥
उत्तमो दशभिर्द्रोणैः पञ्चभिर्मध्यमो मतः ।त्रिभिः कनिष्ठो विप्रेन्द्र ! तिलशैलः प्रकीर्त्तितः ॥
पूर्व्ववच्चापरं सर्व्वं विष्कम्भपर्व्वतादिकम् ।दानमन्त्रं प्रवक्ष्यामि यथावन्मुनिसत्तम् ! ॥
यस्मान्मधुवधे विष्णोर्देहात् स्वेदसमुद्भवाः ।तिलाः कुशाश्च समिधस्तस्माच्छान्त्यै भवन्त्विह ॥
हव्यकव्येषु यस्माच्च तिला एवाभिरक्षणम् ।भवादुद्धर शैलेन्द्र ! तिलाचल ! नमोऽस्तु ते ॥
इत्यामन्त्र्य च यो दद्यात्तिलाचलमनुत्तमम् ।स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् ॥
दीर्घायुष्ट्वमवाप्नोति पुत्त्रपौत्त्रैश्च मानवः ।पितृभिर्देवगन्धर्व्वैः पूज्यमानो दिवं व्रजेत् ॥
५ ॥
अथातः संप्रवक्ष्यामि कार्पासाचलमुत्तमम् ।यत्प्रदानान्नरो नित्यमाप्नोति परमं पदम् ॥
कार्पासपर्व्वतस्तद्वद्विंशद्भारैरिहोत्तमः ।दशभिर्म्मध्यमः प्रोक्तः कनिष्ठः पञ्चभिर्म्मतः ॥
भारेणाल्पधनो दद्याद्बित्तशाठ्येन वर्ज्जितः ।धान्यपर्व्वतवत् सर्व्वमासाद्य मुनिपुङ्गव ! ॥
प्रभातायान्तु शर्व्वर्य्यां दद्यादिदमुदीरयेत् ।त्वमेवावरणं यस्माल्लोकानामिह सर्व्वदा ॥
कार्पासाद्रे नमस्तस्मादघौघध्वंसनो भव ।इति कार्पासशैलेन्द्रं यो दद्यात् शर्व्वसन्निधौ ॥
रुद्रलोके वसेत् कल्पं ततो राजा भवेदिह ॥
* । ६ ।अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम् ।तेजोऽमृतमयं दिव्यं महापातकनाशनम् ॥
विंशत्या घृतकुम्भानामुत्तमः स्याद्घृताचलः ।दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्ववरः स्मृतः ॥
अल्पवित्तोऽपि कुर्व्वीत द्वाभ्यामिह विधानतः ।विष्कम्भान् पर्व्वतांस्तद्बच्चतुर्भागेन कल्पयेत् ॥
शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् ।कारयेत् संहृतानुच्चान् यथाशोभं विधानतः ॥
वेष्टयेत् शुक्लवासोभिरिक्षुदण्डफलादिकैः ।धान्यपर्व्वतवत् सर्व्वं विधानमिह पठ्यते ॥
अधिवासनपूर्व्वन्तु तद्बद्धोमसुरार्च्चनम् ।प्रभातायान्तु शर्व्वर्य्यां गुरवे च निवेदयेत् ॥
विष्कम्भपर्व्वतांस्तद्वदृत्विग्भ्यः शान्तमानसः ।संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसोः ॥
तस्माद्घृतार्च्चिर्विश्वात्मा प्रीयतामत्र शङ्करः ।यस्मात्तेजोमयं ब्रह्म घृते तच्च व्यवस्थितम् ॥
घृतपर्व्वतरूपेण तस्मान्मां पाहि भूधर ! ।अनेन विधिना दद्याद्घृताचलमनुत्तमम् ॥
महापातकयुक्तोऽपि लोकमायाति शाङ्करम् ।हंससारसयुक्तेन किङ्किणीजालमालिना ॥
विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः ।विहरेत् पितृभिः सार्द्धं यावदाहूतसंप्लवम् ॥
७ ॥
अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम् ।मुक्ताफलसहस्रेण पर्व्वतः स्यादनुत्तमः ॥
मध्यमः पञ्चशतिकस्त्रिशतैरवरः स्मृतः ।चतुर्थांशेन विष्कम्भाः पर्व्वताः स्युः समन्ततः ॥
पूर्व्वेण वज्रगोमेदैर्दक्षिणेनेन्द्रनीलकैः ।पुष्परागयुतैः कार्य्यो विद्बद्भिर्गन्धमादनः ॥
वैदूर्य्यविद्रुमैः पश्चात् संमिश्रो विपुलोऽचलः ।पद्मरागैः ससौवर्णैरुत्तरेण तु विन्यसेत् ॥
धान्यपर्व्वतवत् सर्व्वमत्रापि परिकल्पयेत् ।तद्वदावाहनं कृत्वा वृक्षान् देवांश्च काञ्चनान् ॥
पूजयेद् पुष्पपानीयैः प्रभाते चाथ पूर्व्ववत् ।पूर्व्ववद्गुरु-ऋत्विग्भ्यः फलमन्त्रानुदीरयेत् ॥
यथा देवगणाः सर्व्वे सर्व्वरत्नेष्ववस्थिताः ।त्वञ्च रत्नमयो नित्यमतः पाहि महाचल ! ॥
यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरेः ।सदानन्दप्रदानेन तस्मान्नः पाहि पर्व्वत ! ॥
अनेन विधिना यस्तु दद्याद्रत्नमहागिरिम् ।स याति वैष्णवं लोकममरेश्वरपूजितः ॥
यावत् कल्पशतं साग्रं वासश्चेह नराधिप ! ।रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत् ॥
ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम् ।तत् सर्व्वं नाशमायाति गिरिर्वज्रहतो यथा ॥
८ ॥
अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् ।यत्प्रदानान्नरो याति सोमलोकं द्विजोत्तम् ! ॥
दशभिः पलसाहस्रैरुत्तमो रजताचलः ।पञ्चभिर्मध्यमः प्रोक्तस्तदर्द्धेनावरः स्मृतः ॥
अशक्तौ विंशतेरूर्द्ध्वं कारयेत् शक्तितः सदा ।विष्कम्भपर्व्वतांस्तद्वत्तुरीयांशेन कल्पयेत् ॥
पूर्व्ववद्राजतान् कुर्य्यान्मन्दरादीन् विधानतः ।कलधौतमयांस्तत्र लोकेशान् रचयेद्बुधः ॥
ब्रह्मविष्ण्वर्कवत् कार्य्यो नितम्बोऽत्र हिरण्मयः ।राजतं स्याद्यदन्येषां सर्व्वन्तदिह काञ्चनम् ॥
शेषञ्च पूर्व्ववत् कुर्य्याद्धोमजागरणादिकम् ।प्रदद्यात्तं प्रभाते तु गुरवे रौप्यपर्व्वतम् ॥
विष्कम्भशैलानृत्विग्भ्यः पूज्यवस्त्रविभूषणैः ।इमं मन्त्रं पठन् दद्याद्दर्भपाणिर्विमत्सरः ॥
पितॄणां वल्लभं यस्माद्विष्णोर्व्वा शङ्करस्य च ।रजतं पाहि तस्मान्नः शोकसंसारसागरात् ।इत्थं निवेश्य यो दद्याद्रजताचलमुत्तमम् ।गवामयुतदानस्य फलं प्राप्नोति मानवः ॥
सोमलोके स गन्धर्व्वैः किन्नराप्सरसाङ्गणैः ।पूज्यमानो वसेद्विद्वान् यावदाहूतसंप्लवम् ॥
९ ॥
अथातः संप्रवक्ष्यामि शर्कराशैलमुत्तमम् ।यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्व्वदा ॥
अष्टभिः शर्कराभारैरुत्तमः स्यान्महाचलः ।चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः ॥
सार्द्धभारेण शैलन्तु यः कुर्य्यात् स्वल्पवित्तवान् ।विष्कम्भपर्व्वतान् कुर्य्यात्तुरीयांशेन मानवः ॥
धान्यपर्व्वतवत् सर्व्वमासाद्य मेरुसंयुतम् ।मेरोरुपरि तद्वच्च स्थाप्यं हेमतरुत्रयम् ॥
मन्दारः पारिजातश्च तृतीयः कल्पपादपः ।एतद्वृक्षत्रयं मूर्द्ध्नि सर्व्वेष्वपि निवेशयेत् ॥
हरिचन्दनसन्तानौ पूर्व्वपश्चिमभागयोः ।निवेश्यौ सर्व्वशैलेषु विशेषाच्छर्कराचले ॥
मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत् ।गन्धमादनशृङ्गेषु धनदः स्यादुदङ्मुखः ॥
प्राङ्मुखो वेदमूर्त्तिश्च हंसः स्याद्विपुलाचले ।हैमी सुपार्श्वसुरभी दक्षिणाभिमुखी भवेत् ॥
धान्यपर्व्वतवत् सर्व्वमावाहनमखादिकम् ।कृत्वाथ गुरवे दद्यान्मध्यमं पर्व्वतोत्तमम् ।ऋत्विग्भ्यश्च नरः शैलानिमान्मन्त्रानुदीरयेत् ॥
सौभाग्यामृतसारोऽयं परमः शर्करायुतः ।तत् सदानन्दकारी त्वं भव शैलेन्द्र ! सर्व्वदा ॥
अमृतं पिबतां ये तु निपेतुर्भुवि शीकराः ।देवानान्तत्समुत्थोऽयं पाहि नः शर्कराचल ! ॥
मनोभवधनुर्मध्यादुद्भूता शर्करा यतः ।तन्मयोऽसि महाशैल ! पाहि संसारसागरात् ॥
यो दद्यात् शर्कराशैलमनेन विधिना नरः ।सर्व्वपापविनिर्मुक्तः प्रयाति शिवमन्दिरम् ॥
चन्द्रादित्यप्रतीकाशमधिरुह्यानुजीविभिः ।सहैव यानमातिष्ठेत् स तु विष्णुप्रचोदितः ॥
ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ।आयुरारोग्यसम्पन्नो यावज्जन्मार्व्वुदत्रयम् ॥
भोजनं शक्तितः कुर्य्यात् सर्व्वशैलेष्वमत्सरः ।सर्व्वत्राक्षारलवणमश्नीयात्तदनुज्ञया ।पर्व्वतोपस्करान् सर्व्वान् प्रापयेत् ब्राह्मणा-लयम् ॥
१० ॥
इति मात्स्ये ७७ अध्यायः ॥
देवर्षिविशेषः । यथा, --“कश्यपान्नारदश्चैव पर्व्वतोऽरुन्धती तथा ॥
”इत्यग्निपुराणम् ॥
(यथाच, महाभारते । ३ । ९३ । २५ ।“लोमशस्योपसंगृह्य पादौ द्वैपायनस्य च ।नारदस्य च राजेन्द्र ! देवर्षेः पर्व्वतस्य च ॥
”)मत्स्यविशेषः । पाव्दा इति भाषा । अस्यगुणाः । वायुनाशित्वम् । स्निग्धत्वम् । बलशुक्र-कारित्वञ्च । इति राजवल्लभः ॥
वृक्षः । शाक-भेदः । इति मेदिनी । ते, १२६ ॥
(सन्न्यासि-विशेषः । स तु शङ्कराचार्य्यशिष्यस्य मण्डनमिश्रस्यशिष्यविशेषः । यथा, प्राणतोषिण्यां अवधूत-प्रकरणे ।“वसेत् पर्व्वतमूलेषु प्रौढो यो ध्यानधारणात् ।सारात्सारं विजानाति पर्व्वतः परिकीर्त्तितः ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
