| YouTube Channel

पर्य्युषितं (paryyuSitaM)

 
शब्दकल्पद्रुमः
Sanskrit
पर्य्युषितं, त्रि, (परित्यज्य स्वकालमुषितम् वस+ क्तः ।) व्युष्टम् वासि इति भाषा तस्या-भक्षणीयत्वं यथा, --“भक्तं पर्य्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ।उदक्यास्पृष्टसंमृष्टं पर्य्यायाप्तञ्च वर्ज्जयेत्
”इति गरुडपुराणम्
“यातयामं गतरसं पूतिपर्य्युषितञ्च यत् ।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्
”इति भगवद्गीता
*
तस्य भक्ष्यत्वं यथा, --“मन्त्राभिमन्त्रितं शस्तं पर्य्युषितं नृप ! ।अन्यत्र फलमासेभ्यः शुष्कशाकादिकात्तथा
तद्वद्वादरिकेभ्यश्च गुडपक्वेभ्य एव
”इत्याह्निकतत्त्वम्
तुलसीयुक्तपुष्पे पर्य्युषितदोषाभावो यथा, --“तुलसीलग्नपुष्पाणि पद्मं गङ्गोदकं कुशाः ।न पर्य्युषितदोषोऽत्र छिन्नभिन्नं दुष्यति
”इति पुराणम्