| YouTube Channel

पर्य्युदासः (paryyudAsaH)

 
शब्दकल्पद्रुमः
Sanskrit
पर्य्युदासः,
पुं,
परि सर्व्वतोभावेन उदास्यते विधि-यत्र सः (परि + उत् + अस् + घञ् ।) तस्यलक्षणम् श्राद्धविवेके ।“सामान्यशास्त्रप्राप्तनिषेधस्यैव पर्य्युदासत्वम्
”अपि मलमासतत्त्वे ।“प्राधान्यन्तु विधेर्यत्र प्रतिषेधेऽप्रधानता ।पर्य्युदासः विज्ञेयो यत्रोत्तरपदेन नञ्
”अस्योदाहरणम् अमावस्यायां पितृभ्यो दद्यात्रात्रौ श्राद्धं कुर्व्वीत अत्र श्राद्धकरणे रात्रेःपर्य्युदासः
(यथा साहित्यदर्पणे ।“जुगोपात्मानमत्रस्तो भेजे धर्म्ममनातुरः ।अगृध्नुराददे सोऽर्थानसक्तः सुखमन्वभूत्
अत्रात्रस्ततामनूद्यात्मगोपनाद्येवविधेयमितिनञः पर्य्युदासतया गुणभावो युक्तः
”)