| YouTube Channel

पर्य्यायः (paryyAyaH)

 
शब्दकल्पद्रुमः
Sanskrit
पर्य्यायः,
पुं,
(परि + इन गतौ + ‘परावनुपात्ययइनः ।’ ३८ इति घञ् क्रमप्राप्त-स्यानतिपातोऽनुपात्ययः ।) पर्य्ययणम् क्रमः ।(यथा, कुमारे ३६ ।“पर्य्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः ।उद्यानपालसामान्यमृतवस्तमुपासते
”)तत्पर्य्यायः आनुपूर्व्वी आवृत् परिपाटी ४अनुक्रमः इत्यमरः ३७
आनु-पूर्व्व्यम् आनुपूर्व्वम् आनुपूर्व्वकम् परि-पाटिः इति भरतादयः
प्रकारः अव-सरः इति मेदिनी ये, ८९
निर्म्माणम् ।द्रव्यधर्म्मः इति हेमचन्द्रः
१३९ क्रमे-णैकार्थवाचकाः शब्दाः पर्य्यायाः इति विजय-रक्षितः
सम्पर्कविशेषः येन सह यत्सम्पर्कःसम्बन्धस्तेन सह तत्पर्य्यायः यथा, --“समानं कुलभावञ्च दानादानन्तथैव ।तयोर्व्वंशसमानं हि पर्य्यायञ्च प्रचक्षते
”इति कुलदीपिका
(अर्थालङ्कारविशेषः यथा, साहित्यदर्पणे१० १०४ ।“क्वचिदेकमनेकस्मिन्ननेकञ्चैकगं क्रमात् ।भवति क्रियते वा चेत् तदा पर्य्याय इष्यते
”उदाहरणं क्रमेण यथा, --“स्थिताः क्षणं पक्ष्मसु ताडिताधराःपयोधरोत्सेधनिपातचूर्णिताः ।वलीषु तस्याः स्खलिताः प्रपेदिरेक्रमेण नाभिं प्रथमोदविन्दवः
विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः ।वृककाकशिवास्तत्र धावन्त्यरिपुरे तव
विमृष्टरागादधरान्निवर्त्तित-स्तनाङ्गरागादरुणाच्च कन्दुकात् ।कुशाङ्कुरादानपरिक्षताङ्गुलिःकृतोक्षसूत्रप्रणयी तया करः
ययोरारोपितस्तारो हारस्तेऽरिबधूजनैः ।निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुबिन्दवः
एषु क्वचिदाधारः संहतरूपोऽसंहतरूपश्च ।क्वचिदाधेयमपि यथा, ‘स्थिताःक्षणं पक्ष्मसु’इत्यत्र उदबिन्दवः पक्ष्मादावसं हतरूप आधारेक्रमेणाभवन् ‘विचरन्ति’ इत्यत्राधेयभूतावृकादयः संहतरूपारिपुरे क्रमेणाभवन् एव-मन्यत् अत्र चैकस्यानेकत्र क्रमेणैव वृत्ते-र्विशेषालङ्काराद्भेदः विनिमयाभावात् परि-वृत्तेः
”)