| YouTube Channel

पर्य्याप्तिः (paryyAptiH)

 
शब्दकल्पद्रुमः
Sanskrit
पर्य्याप्तिः,
स्त्री,
(परि + आप + क्तिन् ।) परि-त्राणम् मरणोद्यतस्य निवारणम् इत्यमर-भरतौ
प्रकाशः प्राप्तिः इति शब्दरत्ना-वली
(तृप्तिः यथा, कथासरित्सागरे ।२६ १९९ ।“नास्ति व्यसनिनां वत्स ! भुवि पर्य्याप्तये धनम्
”शक्तिः यथा, तत्रैव २६ ४७ ।“प्रविष्टः सोऽप्यपश्यत्तां तत्र नेत्रोत्सवप्रदाम् ।धातुरद्भुतनिर्म्माणपर्य्याप्तिमिव रूपिणीम्
”)स्वरूपसम्बन्धविशेषः सर्व्वेषामेव पदार्थानांविशिष्टबुद्धिनियामकः पदार्थभेदेन नाना ।यथा पर्य्याप्तिश्चायमेको घट इमौ द्बौ इत्यादिप्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः इतिदीधितिः
समवायेन गुणे गुणस्यासत्त्वेऽपिचत्वारो गुणा इत्यादि प्रतीत्या गुणादिषुसंख्यादिमत्त्वनियामकोऽपि तादृशसम्बन्धः इतिसामान्याभावे जगदीशः
द्वितीयव्यत्पत्तिवादेगदाधरभट्टाचार्य्यश्च