| YouTube Channel

पर्य्यवस्थाता (paryyavasthAtA)

 
शब्दकल्पद्रुमः
Sanskrit
पर्य्यवस्थाता [ऋ] त्रि, (पर्य्यवतिष्ठते इति परि +अव + स्था + तृच् ।) पर्य्यवस्थाकर्त्ता विरोधी ।इति हलायुधः
(यथा, किरा-तार्ज्जुनीये ।११ १३ ।“अन्तकः पर्य्यवस्थाता जन्मिनः सन्ततापदः ।इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः
”)