| YouTube Channel

पर्य्यन्तः (paryyantaH)

 
शब्दकल्पद्रुमः
Sanskrit
पर्य्यन्तः,
पुं,
(परितोऽन्तम् प्रादिसमासः ।)शेषसीमा इति दुर्गादासः
(यथा, पञ्च-तन्त्रे १४१ ।“पर्य्यन्तो लभ्यते भूमेः ससुद्रस्य गिरेरपि ।न कथञ्चित् महीपस्य चित्तान्तः केनचित्क्वचित्
”समीपम् यथा, हरिवंशे १२२ ५३ ।“पर्य्यन्तदेशं सरसेन देवीलिलेप सा लोहितचन्दनेन
”पार्श्वः यथा, रघौ १८ ४३ ।“पर्य्यन्तसञ्चारितचामरस्यकपोललोलोभयकाकपक्षात् ।तस्याननादुच्चरितो विवादःचस्खाल वेलास्वपि नार्णवानाम्
”)