| YouTube Channel

पर्य्यनुयोज्योपेक्षण (paryyanuyojyopekSaNa)

 
वाचस्पत्यम्
Sanskrit
पर्य्यनुयोज्योपेक्षण
न०
गौतमोक्ते निग्रहस्थानभेदे निग्र-हस्थानप्रप्प्तस्योपेक्षणे “अनिग्रहः पर्य्यनुयोज्योपेक्ष-णम्” गौ० सू० पर्य्यनुयोज्योपेक्षणं लक्षयति निग्र-हस्थानं प्राप्तवतोऽनिग्रहः निग्रहस्थानानुद्भावनमित्यर्थःयत्र त्वनेकनिग्रहस्थानपाते एकतरोद्भावनं तत्र पर्य्य-नुयोज्योपेक्षणम् अवमरे निग्रहस्थानोद्भावनत्वावच्छिन्ना-भावस्येव तत्त्वात् ननु वादिना कथमिदमुद्भाव्यं स्वकौ-लीनविवरणस्यायुक्तत्वादिति चेत् सत्यं मध्यस्थेनैव-सद्भाव्यं वादे स्वयमुद्भावनेऽप्यदोषः” वृत्तिः