पर्णनरः (parNanaraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiपर्णनरः
पर्णम्-नरः -
पत्तों से बनाया गया पुतला जो अप्राप्त शव की जगह रखकर जलाया जाता है
शब्दकल्पद्रुमः
Sanskritपर्णनरः, (पर्णैः पलाशपत्रैर्निर्म्मितो नरः नरा-कारः पुत्तलकः ।) पित्रादिशवास्थ्यलाभे दाहार्थ-तत्प्रतिनिधीभूतशरपलाशपत्ररचितोर्णातन्तु-वेष्टितयवपिष्टलिप्तनराकारपुत्तलकः । यथा, “आश्वलायनगृह्यपरिशिष्टम् । अस्थिनाशे पलाश-वृन्तानां त्रीणि षष्टिशतानि पुरुषप्रतिकृतिं कृत्वा, अशीत्यर्द्धन्तु शिरसि ग्रीवायां दश योजयेत् ।‘उरसि त्रिंशतं दद्यात् विंशतिं जठरे तथा ॥
बाहुभ्याञ्च शतं दद्यात् दद्यादङ्गुलिभिर्दश ।द्वादशार्द्धं वृषणयोरष्टार्द्धं शिश्न एव च ॥
ऊरुभ्यान्तु शतं दद्यात् त्रिंशतं जानुजङ्घयोः ।पादाङ्गुलीषु च दश एतत् प्रेतस्य लक्षणम् ॥
ऊर्णासूत्रेण संवेष्ट्य यवपिष्टेन लेपयेत् ॥
’आदिपुराणम् ।‘तदलाभे पलाशोत्थैः पत्रैः कार्य्यः पुमानपि ।शतैस्त्रिभिस्तथा षष्ट्या शरपत्रैर्विधानतः ॥
’तदलाभे अस्थ्यलाभे । अत्र पलाशपत्रशरपत्रयोःतुल्यत्वेनोपादानात् आश्वलायनसूत्रेऽपि प्रति-कृतौ शरपत्रस्य लाभः । अत्राचाराद्योग्यत्वाच्चशरपत्रैः पुत्तलकं कृत्वा शिरप्रभृतिषु पलाश-पत्राणि देयानि । ततो वेष्टनं ऊर्णासूत्रेण लेपनंयवपिष्टेनेति । अशौचाभ्यन्तरदाहे शेषाहेन-शुद्धिः । तदुत्तरपर्णनरदाहे तु त्रिरात्रम् । एवंपर्णनरं दग्ध्वा त्रिरात्रमशुचिर्भवेदित्यादि पुरा-णात् । यज्ञपार्श्वः ।‘पुत्त्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन ।तदलामे पलाशस्य सम्भवे हि पुनः क्रिया ॥
’हि यस्मात्तदलाभे अस्थ्नामप्राप्तौ पलाशस्य तत-कृतपुत्तलकस्य दाहक्रिया । पुनरपि सम्भवेअस्थिलाभे पुनरपि अस्थिदाहक्रिया विहितातस्माद्यदि पुनरस्थीनि प्राप्यन्ते तदा पुनर्दाह-त्रिरात्राशौचे कर्त्तव्ये न पुनः पिण्डादिदानं वक्ष्य-माणयुक्तेः । विष्णुः ।“त्रिपक्षे तु गते पर्णनरं दह्यादनग्निकः ।त्रिपक्षाभ्यन्तरे राजन्नैव पर्णनरं दहेत् ॥
तदूर्द्ध्वमष्टमीं प्राप्य दर्शं वापि विचक्षणः ॥
”दहेदिति शेषः । अस्यार्थः । अशौचाभ्यन्तरेयदि पर्णनरदाहं न कुर्य्यात्तदा मरणदिना-वधित्रिपक्षानन्तरं दाहः कार्य्य इत्यर्थः । इतिहरिदासतर्काचार्य्याः ॥
यादवभट्टोऽप्येवम् । व्यव-हारोऽपि ईदृश एव ।‘पर्णनरं दहेन्नैव विना दर्शं कदाचन ।अस्थ्नामलाभे दर्शे तु ततः पर्णनरं दहेदिति ॥
’दीपकलिकायां सुमन्तुवचनात् दर्शे पर्णनर-दाहः । दर्शमित्यत्राष्टमीमिति क्वचित् पाठः ।अत्राष्टमी कृष्णा पितृकर्म्मणि कृष्णपक्षस्यप्राशस्त्योक्तेः ।” इति शुद्धितत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
