| YouTube Channel

पर्णकः-र्णिका (parNakaH-rNikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पर्ण हरितभावे”@} 2 अदन्तः।
पर्णकः-र्णिका, पिपर्णयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- कर्णयतिवत् 3 ज्ञेयानि।
4 प्रपर्णितम्।
प्रासङ्गिक्यः
01
=>
(९७६)
02
=>
(१०-चुरादिः-१९३९। अक। सेट्। उभ।)
03
=>
(१७०)
04
=>
[[आ। ‘प्रपर्णितदिशं रुचा क्षपितभूभृतोऽस्यानुजाः सदोनिवसितं हरिं ययुरतूत्थिताङ्गाः क्रुधा।’ धा। का। ३। ६४।]]
1 {@“पृण प्रीणने”@} 2 पर्णकः-र्णिका, पर्णकः-र्णिका, पिपर्णिषकः-षिका, परीपृणकः-णिका
इत्यादीनि 3 सर्वाण्यपि रूपाणि भौवादिकगर्जतिवत् 4 ज्ञेयानि।
5 लोकम्पृणः।
प्रासङ्गिक्यः
01
=>
(१०५२)
02
=>
(६-तुदादिः-१३२९। अक। सेट्। पर।)
03
=>
[पृष्ठम्०८८९+ २५]
04
=>
(४२२)
05
=>
[[१। लोकं पृणतीति लोकम्पृणः। ‘कप्रकरणे-मूलविभुजादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कर्तरि कप्रत्यये, ‘लोकस्य पृणे’ (वा। ६-३-७०) इति मुमागमः। लोकम्पृणः = यागवेदिका, आशुकार्यकारी, जनरञ्जकश्च।]]