| YouTube Channel

परूषकं (parUSakaM)

 
शब्दकल्पद्रुमः
Sanskrit
परूषकं,
क्ली,
(परूष + स्वार्थे कन् ।) परूषम् ।इति राजनिर्घण्टः
(अस्य पर्य्याया यथा, --“परूषकं परूषं स्यात् क्वचिन्नागदलोपमम् ।”इति वैद्यकरत्नमालायाम्
यथास्य गुणाः चरके सूत्रस्थाने २७ अध्याये ।“अम्लं परूषकं द्राक्षा वदर्य्याण्यारुकाणि ।पित्तश्लेष्मप्रकोपीनि कर्कन्धुलकुचान्यपि
”“अत्यम्लमीषन्मधुरं कषायानुरसं लघु ।वातघ्नं पित्तजननमामं विद्यात् परूषकम्
तदेव पक्वं मधुरं वातपित्तनिवर्हणम् ।विपाके मधुरं शीतं रक्तपित्तप्रसादनम्
”इति सुश्रुते सूत्रस्थाने ४६ अध्याये
)