| YouTube Channel

परुषं (paruSaM)

 
शब्दकल्पद्रुमः
Sanskrit
परुषं,
क्ली,
(पिपर्त्ति अलं बुद्धिं करोतीति पॄ +“पॄनहिकलिभ्य उषच् ।” उणां ७५ ।इति उषच् ।) निष्ठुरवाक्यम् इत्यमरः ।६ १९
(परेषां देशजातिकुलविद्याशिल्परूप-वृत्त्याचारपरिच्छदशरीरकर्म्मजीविनां प्रत्यक्ष-दोषवचनं परुषमिति वदन्ति
यथा, हेःरामायणे ८२ ।“तामुवाच ततो रामः परुषं जनसंसदि ।अमृष्यमाणा सा सीता विवेश ज्वलनं सती
”)नीलझिण्टी इति शब्दचन्द्रिका
परुषफलम् ।इति भावप्रकाशः
(नीलझिण्टीशब्देऽस्यगुणादयो ज्ञातव्याः
)
परुषं, त्रि, (पिपर्त्तीति पॄ लि पूर्त्तौ + “पॄनहि-कलिभ्य उषच् ।” उणां ७५ इतिउषच् ।) कर्व्वूरः (यथा, बृहत्संहिता-याम् ३९ ।“असितविचित्रनीलपरुषो जनघातकरः ।खगमृगभैरवखररुतैश्च निशाद्युमुखे
”)रूक्षः (यथा, हेः रामायणे ५८ १० ।“अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः ।नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्द्धजः
”)निष्ठुरोक्तिः इति मेदिनी षे, ४०
(मलिनः ।यथा, आर्य्यासप्तशत्याम् ४१९ ।“भस्मपरुषेऽपि गिरिशे स्नेहमयी त्वमुचितेनसुभगासि ।”“भस्ममलिनेऽपि गिरिशे ।” इति तट्टीका
)