| YouTube Channel

परीपृषणम् (parIpRSaNam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पृषु सेचने”@} 2 ‘--हिंसासंक्लेशनयोश्च’ इति माधवः।
पर्षकः-र्षिका, पर्षकः-र्षिका, पिपर्षिषकः-षिका, 3 परीपृषकः-षिका
पर्षिता-त्री, पर्षयिता-त्री, पिपर्षिषिता-त्री, परीपृषिता-त्री
पर्षन्- 4 व्यतिपर्षन्-न्ती, पर्षयन्-न्ती, पिपर्षिषन्-न्ती
-- -- पर्षयमाणः, -- परीपृष्यमाणः
-- पर्षयिष्यमाणः, -- परीपृषिष्यमाणः
पृट्-पृड्-पृषौ-पृषः
-- -- -- 5 पृष्टम्-पृष्टः-पृष्टवान्, पर्षितः, पिपर्षिषितः, परीपृषितः-तवान्
पर्षः, 6 पर्षणः, सुपर्षी, पर्षः, पिपर्षिषुः, परीपर्षः
पर्षितव्यम्, पर्षयितव्यम्, पिपर्षिषितव्यम्, परीपृषितव्यम्
पर्षणीयम्, पर्षणीयम्, पिपर्षिषणीयम्, परीपृषणीयम्
7 8 पृष्यम्, पर्ष्यम्, पिपर्षिष्यम्, परीपृष्यम्
ईषत्पर्षः- 9 दुष्पर्षः-सुपर्षः
-- -- पृष्यमाणः, पर्ष्यमाणः, पिपर्षिष्यमाणः, परीपृष्यमाणः
पर्षः, पर्षः, पिपर्षिषः, परीपृषः
पर्षितुम्, पर्षयितुम्, पिपर्षिषितुम्, परीपृषितुम्
पृष्टिः, पर्षणा, पिपर्षिषा, परीपृषा
पर्षणम्, पर्षणम्, पिपर्षिषणम्, परीपृषणम्
10 पर्षित्वा-पृष्ट्वा, पर्षयित्वा, पिपर्षिषित्वा, परीपृषित्वा
प्रपृष्य, प्रपर्ष्य, प्रपिपर्षिष्य, प्रपरीपृष्य
11 दण्डोपपर्षम्, दण्डेनोपपर्षम्, दण्डपर्षं वा गाः कालयति।
पर्षम् २, पर्षित्वा -पृष्ट्वा २, पर्षम् २, पर्षयित्वा २, पिपर्षिषम् २, पिपर्षिषित्वा २, परीपृषम्
परीपृषित्वा
12 पृषितम्, 13 पृषत्-पृषती, 14 पृषतम्।
प्रासङ्गिक्यः
01
=>
(१०५४)
02
=>
(१-भ्वादिः-७०५। सक। सेट्। पर।)
03
=>
[[२। यङन्ते सर्वत्र, ‘रीग् ऋदुपधस्य च’ (७-४-९०) इति रीगागमः।]]
04
=>
[[३। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति कर्मव्यतीहारे शानज्निषेधात् शतैव।]]
05
=>
[[४। उदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायाम्, ‘यस्य बिभाषा’ (७-२-१५) इतीण्निषेधः। ष्टुत्वम्।]]
06
=>
[[५। नन्द्यादित्वेन (३-१-१३४) कर्तरि ल्युप्रत्ययः।]]
07
=>
[पृष्ठम्०८९०+ २६]
08
=>
[[१। ‘ऋदुपधात्--’ (३-१-११०) इति भावकर्मणोः क्यप्। ण्यदपवादः।]]
09
=>
[[२। खल्विधायके सूत्रे (३-३-१२६) ‘दुस्’ इति सान्तस्योपसर्गस्योपादानम्, रेफान्तस्य च, इति पक्षद्वयम्। तत्र सान्तस्यैवेति पक्षे षत्वमत्रेति ज्ञेयम्। रेफान्तस्यैवेति पक्षे तु ‘दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधः’ (वा। १-४-६०) इति उपसर्गत्वनिषेधात् षत्वाभावः।]]
10
=>
[[३। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
11
=>
[[४। ‘हिंसार्थानां समानकर्मकाणाम्’ (३-४-४८) इति णमुल्। ‘तृतीयाप्रभृतीन्य- न्यतरस्याम्’ (२-२-२१) इति समासविकल्पः।]]
12
=>
[[५। बाहुलकान्निष्ठायामिडागम इति केचित्। वस्तुतस्तु बाहुलकात् औणादिके इतक्- प्रत्यये रूपमेवमिति ज्ञेयम्।]]
13
=>
[[६। ‘वर्तमाने पृषद्-’ (द। उ। ६-५) इत्यादिना कतिप्रत्यये, तस्य शतृवद्भावेन शपि, पररूपे रूपमेवम्। स्त्रियाम्, उगित्त्वेन, ‘उगितश्च’ (४-१-६) इति ङीपि पृषती इति रूपम्।]]
14
=>
[[७। ‘पृषिरञ्जिभ्यां कित्’ (द। उ। ६-१५) इति अतच्प्रत्ययः। पृषतः = मृगः, बिन्दुश्च।]]