| YouTube Channel

परीपृञ्जकः-ञ्जिका (parIpRJjakaH-JjikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पृजि वर्णे”@} 2 ‘पृची सम्पर्चने’ इति धातोः पाठान्तरमिदं कौशिकादिमतेन।
‘वर्णः = पिङ्गलत्वं तत्।
‘सम्पर्चने’ इत्येके।
‘अवयवे’ इत्यन्ये।
‘अव्यक्ते शब्दे’ इत्यपरे।’ इति धा।
का।
व्याख्यायाम् 3।
‘पृणक्ति पृङ्क्ते सम्पर्के--।।’ 4 इति देवपाठाभ्युपगमेनाप्ययं पाठोऽस्तीति ज्ञायते।
पृञ्जकः-ञ्जिका, पृञ्जकः-ञ्जिका, पिपृञ्जिषकः-षिका, परीपृञ्जकः-ञ्जिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुण्ठतिवत् 5 ज्ञेयानि।
शानचि पृञ्जानः, इति रूपमिति विशेषः।
6 सम्पृञ्जितम्।
प्रासङ्गिक्यः
01
=>
(१०५०)
02
=>
(२-अदादिः-१०२८। अक। सेट्। आत्म।)
03
=>
(२-४६)
04
=>
(श्लो। ५१)
05
=>
(२०९)
06
=>
[[आ। ‘शिञ्जानपिञ्जानसुवर्णभूषासम्पृञ्जितो वृज्यविवृञ्जिसेव्यः।’ धा। का। २। ४६।]]