परीक्षा (parIkSA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishपरीक्षा - parIkSA - - test
परीक्षा - parIkSA - - verification [ computer ]
परीक्षा - parIkSA - - examination
ट्यूरिंग्-परीक्षा - TyUriMg-parIkSA - - TuringTest [ computer ]
परीक्षा अग्रे गता - parIkSAagregatA - - Theexaminationispostponed.
परीक्षा कथं आसीत्? - parIkSAkathaMAsIt? - - Howwastheexam. ?
परीक्षा अन्या, योग्यता अन्या! - parIkSAanyA, yogyatAanyA! - - Examinationisonething, abilityanother.
परीक्षा कदा इति स्मरति किल? - parIkSAkadAitismaratikila? - - Yourememberwhenyourexaminationcommences, don'tyou?
परीक्षा - parIkSA - - inspection
परीक्षा - parIkSA - - probe
परीक्षा - parIkSA - - investigation
परीक्षा - parIkSA - - exploration
परीक्षा - parIkSA - - experiment
परीक्षा - parIkSA - - trial by ordeal of various kinds
परीक्षा - parIkSA - - search
परीक्षा - parIkSA - - check
परीक्षा - parIkSA - - trial
परीक्षा - parIkSA - - testing
परीक्षा सूची - parIkSA sUcI - - trial balance
श्वः मम परीक्षा अस्ति - zvaH mama parIkSA asti - - I have the examination tomorrow.
परीक्षा - parIkSA - - test
परीक्षणी - parIkSaNI - - tester
परीक्षित्र - parIkSitra - - tester
द्वितीयपरीक्षा - dvitIyaparIkSA - - betatest [ computer ]
उपान्त्यपरीक्षा - upAntyaparIkSA - - betatest [ computer ]
निकषस्पर्धा - nikaSaspardhA - - testmatch
ज्वालापरीक्षणव्य्वस्था - jvAlAparIkSaNavyvasthA - - flametest
आद्यपरीक्षा - AdyaparIkSA - - alphatest [ computer ]
बलपरीक्षा - balaparIkSA - - stresstest [ computer ]
सत्वपरीक्षा - satvaparIkSA - - stresstest [ computer ]
एकलपरीक्षा - ekalaparIkSA - - unittesting [ computer ]
समवस्थापरीक्षा - samavasthAparIkSA - - baselinetest [ computer ]
परीक्षाव्याप्ति - parIkSAvyApti - - testcoverage [ computer ]
विमर्श - vimarza - - criticaltest
विमर्शन - vimarzana - - criticaltest
अनियतपरीक्षा - aniyataparIkSA - - randomtesting [ computer ]
यदृच्छापरीक्षा - yadRcchAparIkSA - - randomtesting [ computer ]
यादृच्छिकपरीक्षा - yAdRcchikaparIkSA - - randomtesting [ computer ]
संविधापरीक्षा - saMvidhAparIkSA - - systemtesting [ computer ]
स्वीकारपरीक्षा - svIkAraparIkSA - - acceptancetest [ computer ]
परीक्षा - parIkSA - - verification [ computer ]
परीक्षण - parIkSaNa - - verification [ computer ]
शुद्धि - zuddhi - - verification
सत्यापन - satyApana - - verification [ Logic ]
सत्य-साधन - satya-sAdhana - - verification [ Logic ]
निर्णेतृत्व - nirNetRtva - - verification
वार्शिक सत्यापन - vArzika satyApana - - annual verification
परीक्षा - parIkSA - - inspection
अनुदर्शन - anudarzana - - inspection
समवेक्षण - samavekSaNa - - inspection
वीक्षण - vIkSaNa - - inspection
निरीक्षण - nirIkSaNa - - inspection
अन्ववेक्षण - anvavekSaNa - - inspection
दर्शन - darzana - - inspection
सन्दर्शन - sandarzana - - inspection
समालोकन - samAlokana - - inspection
अनुसन्धान - anusandhAna - - close inspection
प्रत्यक्ष - pratyakSa - - visual inspection
ईषद्दर्शन - ISaddarzana - - slight inspection
कार्यदर्शन - kAryadarzana - - inspection of work
समीक्षा - samIkSA - - thorough or close inspection
नित्यपरीक्षण - nityaparIkSaNa - - constant investigation or inspection
प्रमदावनपालिका - pramadAvanapAlikA - - woman who has the inspection of a royal pleasure-garden
परीक्षा - parIkSA - - probe
शलाका - zalAkA - - probe
आर - Ara - - probe
एषणी - eSaNI - - iron or steel probe
जाम्बवौष्ठ - jAmbavauSTha - - cauterizing needle or probe
जाम्बवोष्ठ - jAmbavoSTha - - cauterizing needle or probe
शलाकायन्त्र - zalAkAyantra - - pointed instrument or probe
एष्य - eSya - - to be examined medically or probed
परीक्षा - parIkSA - - exploration
जिज्ञासा - jijJAsA - - exploration
अन्वेषण - anveSaNa - - exploration
संवीक्षण - saMvIkSaNa - - exploration
अधस्तल समन्वेषण - adhastala samanveSaNa - - sub-surface exploration
Wilson
EnglishApte
Englishपरीक्षा [parīkṣā], 1 Examination, test, trial
पत्तने विद्यमाने$पि ग्रामे रत्नपरीक्षा 1
9.19.
Trial by various kinds of ordeals (in law).
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishHindi
Hindiपरीक्षण
Apte Hindi
Hindiपरीक्षा
- परि + ईक्ष् + अ + टाप्
"इम्तहान, जाँच, परख"
परीक्षा
- परि + ईक्ष् + अ + टाप्
जाँच-पड़ताल के विविध प्रकार
Shabdartha Kaustubha
Kannadaपरीक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಶೋಧನೆ/ಗುಣದೋಷಗಳ ಪರಿಶೀಲನೆ
निष्पत्तिः - > परि+ईक्ष (दर्शने) "अः" (३-३-१०३)
प्रयोगाः - > "विद्यमानेऽपि पत्तने ग्रामे रत्नपरीक्षा"
उल्लेखाः - > माल० १
परीक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪ್ರಮಾಣ ಮಾಡಿಸುವುದು/ಸತ್ಯಾಂಶವನ್ನು ತಿಳಿಯಲು ಅಗ್ನಿ ಜಲ ಮುಂತಾದುವುಗಳನ್ನು ಮುಟ್ಟಿಸಿ ಹೇಳಿಸುವುದು. ಇದಕ್ಕೆ ದಿವ್ಯಪರೀಕ್ಷೆಯೆಂದು ಹೆಸರು
प्रयोगाः - > "विवादेऽन्विष्यते पत्रं तदभावेऽपि साक्षिणः। साक्ष्यभावात्ततो दिव्यं प्रवदन्ति मनीषिणः"
उल्लेखाः - > पञ्चतं० १-४३६
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishEdgerton Buddhist Hybrid
Englishparīkṣā, Skt., investigation, testing, of valuable things: Divy mentions eight parīkṣā in the cliché cited s.v. udghaṭaka, q.v., 〔3.19〕 etc., and ghaṭaka
single complete lists are rare but by combining the Divy lists preceding occurrences of the cliché it seems that we get vastu-, dāru-, ratna-, hasti-, aśva-, kumāra- (or puruṣa-), kumārī (°rikā-, or strī-), and vastra- (〔442.1〕, in a list also containing vastu-)parīkṣā
these all occur, in different order, MSV 〔iii.20.3 ff.〕
Indian Epigraphical Glossary
EnglishWordnet
Sanskrit परीक्षा, परीक्षणम्, प्रयोगः, अभियोगः
विशेषतः कस्यापि रोगस्य कारणं ज्ञातुं शारीरिकाणां पदार्थानां विवेचनस्य क्रिया।
"मया मम रक्तस्य परीक्षा कर्तव्या।"
प्रयोगः, परीक्षा, परीक्षणम्, प्रतीत्यम्
कमपि विषयं प्रत्यक्षेण रूपेण ज्ञातुं या क्रिया आचर्यते।
"वयं प्रयोगं कर्तुं प्रयोगशालाम् अगच्छन्।"
परीक्षणम्, परीक्षा
कस्यापि वस्तुनः मनुष्यस्य वा क्षमतायाः निर्धारणम्।
"नूतनवाहनस्य परीक्षणं प्रचलति।"
परीक्षा
ज्ञानस्य परीक्षणार्थे प्रश्नान् पृष्ट्वा तेषां समाधानस्य तत् परीक्षणं यत् उत्तीर्णानुत्तीर्णयोः निर्णयं करोति।
"रामः दशमी कक्षायाः परीक्षां पारं कर्तुं कठोरान् परिश्रमान् करोति।"
परीक्षणम्, समीक्षणम्, निरीक्षणम्, निरुपणम्, अनुसन्धानम्, परीक्षा, विचारः, विचारणम्, विचारणा, जिज्ञासा, अन्वेक्षणम्, अन्वेक्षणा, अवेक्षा, अवेक्षणम्, संवीक्षणम्, प्रसमीक्षा, निर्णयः, निश्चयः, अनुयोगः, विवेचना, विवेकः, विमर्शः
कस्यापि वस्तुनः सम्यक् प्रविचेयस्य क्रिया।
"सम्यक् परीक्षणाद् अनन्तरमेव कस्यापि सत्यता स्वीकरणीया।"
परीक्षा, परीक्षणम्, निरुपणम्, अनुसन्धानम्, विचारः, अन्वेषणा
यस्मिन् योग्यता-विशेषत-सामर्थ्यादयः विशेषेण गोचरयति।
"समर्थः रामदासः शिष्यानां परीक्षार्थे तेभ्यः व्याघ्रीदुग्धम् अयाचत्।"
Tamil
Tamilபரீக்ஷா : பரீட்சை, தேர்வு.
शब्दकल्पद्रुमः
Sanskritपरीक्षा, (परित ईक्ष्यतेऽनया । परि + ईक्ष+ “गुरोश्च हलः ।” ३ । ३ । १०२ । इति अः ।ततष्टाप् ।) दिव्यम् । अथ दिव्यानि । तत्रबृहस्पतिः ।“धटोऽग्निरुदकञ्चैव विषं कोषश्च पञ्चमम् ।षष्ठञ्च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकम् ॥
अष्टमं फालमित्युक्तं नवमं धर्म्मजं स्मृतम् ।दिव्यान्येतानि सर्व्वाणि निर्द्दिष्टानि स्वयम्भुवा ॥
”अथ किन्तद्दिव्यम् ।तत्र मानुषप्रमाणानिर्णयस्यापि निर्णायकं यत्त-द्दिव्यमिति लोकप्रसिद्धम् । एतद्यद्यपि शपथा-नामस्ति तथापि कालान्तरनिर्णायकत्वेन तेषांभेदात् । अपिना मानुषप्रमाणसत्त्वेऽपि यत्रधटादीनामङ्गीकारस्तत्रापि तद्भवति इति सूचि-तम् । अतएव लिखितसाक्षिभुक्तिलक्षणत्रिविध-मानुषप्रमाणभिन्नप्रमाणं यत्तद्दिव्यं प्रमाणं ततप्रमाणं न भावैकगोचरं किन्तु भावाभावा-विशेषेण गोचरयतीति । तत्र महाभियोगेषुदिव्यान्याह याज्ञवल्क्यः ।“तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥
”विशुद्धये सन्दिग्धार्थस्य सन्देहनिवृत्तये ।महाभियोगेषु महापातकादिगुरुतराभियोगेषु ।शीर्षकस्थ इति शीर्षकं प्रधानं व्यवहारस्यचतुर्थपादो जयपराजयलक्षणः । तेन दण्डोलक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्ड-भागीत्यर्थः । महाभियोगान् स्पष्टयति कालिका-पुराणम् ।“परदाराभिशापे च चौर्य्यागम्यागमेषु च ।महापातकशस्तेषु स्याद्दिव्यं नृपसाहसे ॥
प्रतिपत्तौ विवादे च पणस्य स्थापने कृते ।तत्रैव स्थापयेद्दिव्यं शिरःपूर्व्वं महीपतिः ॥
”परदाराभिशापे च बहवो यत्र वादिनः ।शिरोहीणं भवेद्दिव्यमात्मनः शुद्धिकारणात् ॥
”पितामहः ।“शिरःस्थायिविहीनानि दिव्यानि परिवर्ज्जयेत् ।चत्वारि तु धटादीनि कोषश्चैवाशिराः स्मृतः ॥
”महाभियोगेतरेऽपि कोषमाह स्मृतिः । कोष-मल्पे च दापयेत् । याज्ञवल्क्येनाभियोक्तुर्वादिनःशिरोवर्त्तित्वाभिधानादभियोज्यस्य दिव्यकर्त्तृत्वंप्रतिपादितम् । व्यक्तमाह कात्यायनः ।“न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥
”प्रत्यर्थिस्वीकारेणार्थिनोऽपि दिव्यमाह याज्ञ-वल्क्यः ।“रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः ।विनापि शीर्षकान् कुर्य्यान्नृपद्रोहेऽथ पातके ॥
”इतरोऽभियुक्तः शिरः शारीरदण्डमर्थदण्डं वावर्त्तयेत् स्वीकुर्य्यात् । बृहस्पतिः ।“स्नेहात्क्रोधाल्लोभतो वा भेदमायान्ति साक्षिणः ।विधिदृष्टस्य दिव्यस्य न भेदो जायते क्वचित् ॥
”भेदः सत्याद्वैपरीत्यम् । यत्तु कात्यायनवचनम् ।“क्रिया न वैदिकी प्रोक्ता विद्यमानेषु साक्षिषु ।लेख्ये च सति वादेषु न स्याद्दिव्यं न साक्षिणः ॥
”इति तद्गुणान्वितसाक्षिसत्त्वे । यथा व्यासः ।“मणिमन्त्रौषधिबलात् प्रदत्तं वा विधानतः ।विसंषदेद्दिव्यमपि न तु साक्षी गुणान्वितः ॥
”अतएव नारदः ।“युक्तिष्वप्यवसन्नासु शपथेनैनमर्द्दयेत् ॥
”एनं विपर्य्ययमाणमर्थं अर्द्दयेत् पीडयेत् ।निर्द्धारयेदिति यावत् ॥
* ॥
शपथानाह नारदः ।सत्यवाहनशस्त्राणि गोबीजकनकानि च ।देवतापितृपादांश्च दत्तानि सुकृतानि च ॥
स्पृशेच्छिरांसि पुत्त्राणां दाराणां सुहृदान्तथा ।अभियोगेषु सर्व्वेषु कोषपानमथापि वा ॥
इत्येते शपथाः प्रोक्ता मनुना स्वल्पकारणात् ॥
”बृहस्पतिः ।“यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः ।अयथोक्तप्रदत्तन्तु न शक्तं साध्यसाधने ॥
अदेशकालदत्तानि वहिर्वादिकृतानि च ।व्यभिचारं सदा त्वेवं कुर्व्वन्तीह न संशयः ॥
”वहिर्वादिकृतमभियोक्तारं विना कृतम् । एतच्चप्रायिक्तं आत्मशुद्धिपराणामभियोक्तारं विनापिदिव्यविधानात् ।तथा च नारदः ।“राजभिः शङ्कितानाञ्च निर्द्दिष्टानाञ्च दस्युभिः ।आत्मशुद्धिपराणाञ्च देयं दिव्यं शिरो विना ॥
* ॥
”अथ दिव्यदेशाः । कात्यायनः ।“इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् ।नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।अतोऽन्येषु च कार्य्येषु सभामध्ये विदुर्बुधाः ॥
”इन्द्रस्थाने इन्द्रध्वजस्थाने ॥
* ॥
अथ दिव्यकालाः । पितामहः ।“चैत्रो मार्गशिराश्चैव वैशाखश्च तथैव हि ।एते साधारणा मासा दिव्यानामविरोधिनः ॥
धटः सर्व्वर्त्तुकः प्रोक्तो वाते वाति विवर्ज्जयेत् ।अग्निः शिशिरहेमन्तवर्षासु परिकीर्त्तितः ॥
शरद्ग्रीष्मे तु सलिलं हेमन्ते शिशिरे विषम् ।कोषस्तु सर्व्वदा देयस्तुला स्यात् सार्व्वकालि-कीति ॥
”मिताक्षरायां नारदः ।“न शीते तोयशुद्धिः स्यान्नोष्णकालेऽग्निशोधनम् ।न प्रावृषि विषं दद्यात् प्रवाते न तुलां नृप ! ॥
”नारदः ।“पूर्व्वाह्णे सर्व्वदिव्यानां प्रदानं परिकीर्त्तितम् ।नापराह्णे न सन्ध्यायां न मध्याह्ने कदाचन ॥
”शीते हेमन्तशिशिरवर्षासु । उष्णकाले ग्रीष्म-शरदोः । वर्षासु विषनिषेधश्चतुर्यवातिरिक्तपरः ।वषे चतुर्यवा मात्रा इति वक्ष्यमाणनारदवचनात् ।तण्डुलादीनान्तु विशेषानभिधानात् सार्व्वकालि-कत्वम् । अत्र विषे विशेषतो वर्षानिषेधात् वक्ष्य-माणवचने सिंहस्थरवावेव परीक्षामात्रनिषे-धाच्चदिव्यान्तरं सिंहेतरत्र वर्षास्वपि कुर्व्वीत ।व्यतोयास्यायने हरौ सुप्ते सर्व्वकर्म्माणि वर्ज्जये-दित्यस्य न विषयः । ज्योतिषे ।निंहस्थे मकरस्थे च जीवे चास्तमिते तथा ।मलमासे न कर्त्तव्या परीक्षा जयकाङ्क्षिणा ॥
रविशुद्धो गुरौ चैव न शुक्रेऽस्तङ्गते पुनः ।“सिंहस्थे च रवौ नैव परीक्षा शस्यते बुधैः ॥
नाष्टम्यां न चतुर्द्दश्यां प्रायश्चित्तपरीक्षणे ।न परीक्षा विवाहश्च शनिभौमदिने तथा ॥
रविशुद्धौ गुरौ चैवेत्यत्र शस्यत इति शेषः ॥
तथा च दीपिकायाम् ।“नो शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवी जन्ममासे-ऽष्टमेन्दौविष्टौ मासे मलाख्ये कुजशनिदिवसे जन्म-तारासु चाथ ।नाडीनक्षत्रहीने गुरुरविरजनीनाथतारा-विशुद्धौप्रातः कार्य्या परीक्षा द्वितनुचरगृहांशोदयेशस्तलग्ने ॥
” * ॥
पितामहः ।“प्रत्यक्षं दापयेद्दिव्यं राजा वाधिकृतोऽपि वा ।वाह्मणानां श्रुतवतां प्रकृतीनान्तथैव च ॥
”ब्राह्मणानां प्रकृतीनाञ्च प्रत्यक्षं दिव्यं दापये-दित्यन्वयः । प्रकृतयस्तु ।“स्वाम्यमात्यः मुहृत् कोषो राष्ट्रदुर्गबलानि च ।राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि चेतिअमरसिंहोक्ताः ॥
* ॥
अथ दिव्यविशेषाधिकारिणः । नारदः ।“ब्राह्मणस्य धटो देयः क्षत्त्रियस्य हुताशनः ।वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु ॥
साषारणः समस्तानां कोषः प्रोक्तो मनीषिभिः ।विषषर्ज्जं ब्राह्मणस्य सर्व्वेषान्तु तुला स्मृता ॥
”यत् पुनरनेन ।“मव्रतानां भृशार्त्तानां व्याधितानां तपस्विनाम् ।स्वीणाञ्च न भवेद्दिव्यं यदि धर्म्मस्त्वपेक्षितः ॥
”इति स्त्र्यादीनां दिव्यं निषिद्धं तत्तुलेतरविषयक-मिति शूलपाणिः ॥
मिताक्षारायान्तु ।स्त्रोपुंसयोर्व्विवादेन स्त्रीणां दिव्यमिति रुच्यावान्यतरः कुर्य्यादिति विकल्पनिषेधार्थमेतदुक्तंभवति । अवष्टब्धाभियोगेषु स्त्र्यादीनामभि-योक्तृत्वे अभियोज्यानामेव दिव्यं एतेषामभियोगेयोज्यत्वेऽपि अभियोक्तॄणामेव दिव्यं परस्पराभि-योगे तु विकल्प एव तत्रापि तुलैवेति नियम्यते ।तथा महापातकादिशङ्काभियोगे तु स्त्र्यादीनांतुलैव । यथा याज्ञवल्क्यः ।“तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।अग्निर्जलं वा शूद्रस्य यवाः सप्त विषञ्च वा ॥
”स्त्रीमात्रं जातिवयोऽवस्थाविशेषानादरेण बालआपोडशाद्वर्षाज्जातिविशेषानादरेण वृद्धो-ऽशीतिपारगः । एतच्च वत्तनं सर्व्वदिव्यसाधा-रणेषु मार्गशिरश्चैत्रवैशाखेषु स्त्र्यादीनां सर्व्व-दिव्यसमवधानविधाने नियमार्थकतयार्थवत् । नच सर्व्वकालं स्त्रीणान्तुलैवेति ।“स्त्रीणान्तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।धटकोषादिभिस्तासामन्तस्तत्त्वं विचारयेत् ॥
”इति विषसलिलव्यतिरिक्तधटकोषादिभिः शुद्बि-विधानात् । एवं बालादिष्वपि योजनीयम् ।तथा ब्राह्मणादीनामपि न सार्व्वकालिकस्तुलादि-नियमः ।“सर्व्वेषामेव वर्णानां कोषाच्छुद्धिर्विधीयते ।सर्व्वाण्येतानि सर्व्वेषां ब्राह्मणस्य विषं विना ॥
”इति पितामहस्मरणात् ।तस्मात् साधारणे काले बहुदिव्यसमवधानेतुलादिनियमार्थमेवेदं वचनम् । कालान्तरे तुतत्तत्कालविहितं सर्वेषाम् । तथा हि वर्षा-स्वग्निरेव सर्व्वेषां हेमन्तशिशिरयोस्तु क्षत्त्रिया-दीनां त्रयाणां अग्निविषयोर्विकल्पः ब्राह्मणस्यतु अग्निरेव न कदाचिद्विषं ब्राह्मणस्य विषंविनेति निषेधात् । ग्रीष्मशरदोस्तु सलिलमेव ।येषां कुष्ठ्यादीनान्तु विशेषेणाग्न्यादिनिषेधः ।“कुष्ठिनां वर्ज्जयेदग्निं सलिलं श्वासकासिनाम् ।पित्तश्लेष्मवतां नित्यं विषन्तु परिवर्ज्जयेदिति वच-नात्तेषामग्न्यादिकालेऽपि साधारणं तुलाद्यवदिव्यं भवति । यथा । तोयमग्निर्विषञ्चैव दातव्यंबलिनां नृणामिति स्मरणात् । दुर्ब्बलानामपिसर्व्वथा विषनिषेधात् तत्कालानतिक्रमेण जाति-वयोऽवस्थाश्रितानि दिव्यानि देयानि । अत्र चयस्य यानि विशेषसामान्यपर्य्युदस्तेतरविहितानितानि मुख्यकल्पानुकल्परूपाणि वेदितव्यानि ।यथा, ब्राह्मणस्य धटो मुख्यः कोषस्त्वनुकल्पः ।जलाग्नी आपत्कल्पौ प्रागुक्तनारदवचने एव-कारश्रुतेर्भुख्यकल्पादित्वं न तु प्रशस्ततमादित्व-मिति । एवञ्चात्रापि अयथोक्तप्रदत्तन्तु न शक्तंसाध्यसाधने इति प्रागुक्तं बोध्यम् । स्मृतिः ।“अवष्टम्भाभियुक्तानां धटादीनि विनिर्द्दिशेत् ।तण्डुलश्चैव कोषश्च शङ्कास्वेव न संशयः ॥
”अवष्टम्भोऽत्र निश्चयः । शिरोवर्त्तितेति केचित् ।इति व्यवहारदीपिका ॥
कात्यायनः ।“अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।प्रतिलोमप्रसूतानां निश्चयो न तु राजनि ॥
तत्प्रसिद्धानि दिव्यानि समये तेषु निर्द्दिशेत् ॥
”तत्प्रसिद्धानि सर्पघटादीनि । तथा, --देशकालाविरोधे तु यथायुक्तं प्रकल्पयेत् ।अन्येन हारयेद्दिव्यं विधिरेष विपर्य्यये ॥
”अन्येन प्रतिनिधिना हारयेत् कारयेत् । विप-र्य्यये अभियुक्तस्यासामर्थ्ये ।अतएव महापातक्यादीनामन्यद्बारा दिव्यमाहस एव ।“मातापितृद्विजगुरुबालस्त्रीराजघातिनाम् ।महापातकयुक्तानां नास्तिकानां विशेषतः ॥
लिङ्गिनां प्रमदानाञ्च मन्त्रयोगक्रियावताम् ।वर्णसङ्करजातानां पापाभ्यासप्रवर्त्तिनाम् ॥
एतेष्वेवाभियोगेषु निन्द्येष्वेव प्रयत्नतः ।इत्याद्यभिधाय ।दिव्यं प्रकल्पयेन्नैव राजा धर्म्मपरायणः ।एतैरेव प्रयुक्तानां साधूनां दिव्यमर्हति ॥
”कात्यायनः ।“न लौहशिल्पिनामग्निं सलिलं नाम्बुसेविनाम् ।तण्डुलैर्न नियुञ्जीत ब्राह्मणं मुखरोगिणम् ॥
”नारदः ।“क्लीवातुरान् सत्त्वहीनान् परितापार्द्दितान्नरान् ।बालवृद्धातुरादींश्च परीक्षेत धटे सदा ॥
नार्त्तानां तोयशुद्धिः स्यान्न विषं पित्तरोगिणाम् ।श्वित्र्यन्धकुनखादीनां नाग्निकर्म्म विधीयते ॥
”न मज्जनं स्त्रीबालयोर्धर्म्मशास्त्रविशारदैः ।निरुत्साहान् व्याधिकृशान्नार्त्तांस्तोये निमज्ज-येत् ॥
न चापि हारयेदग्निं न विषेण विशोधयेत् ॥
यत्तु, --स्थावरेषु विवादेषु दिव्यानि परिवर्ज्जयेदितिपितामहवचनं तल्लिखितसामन्तादिसत्त्वे दिव्य-निषेधकम् । यद्यपि अलेख्यसाक्षिके दिव्यंव्यवहारे विनिर्द्दिशेदिति स्मृतेर्विवादान्तरेऽपिलेख्यादिसत्त्वे दिव्यानादरस्तथापि ऋणादानादि-विवादे साक्ष्युपन्यासे कृतेऽपि प्रत्यर्थी यदिदण्डाङ्गीकारेण दिव्यमङ्गीकरोति तदा दिव्यमपिभवति साक्षिणां दोषसम्भवाद्दिव्यस्य तु निर्दो-षत्वेन वस्तुतत्त्वविषयत्वात् तल्लक्षणत्वाच्च धर्म्मस्य ।यथाह नारदः ।“तत्र सत्ये स्थितो धर्म्मो व्यवहारस्तु साक्षिणि ।दैवसाध्ये पौरुषन्तु न लेख्यन्तु प्रयोजयेत् ॥
”स्थावरविवादे तु प्रत्यर्थिना दण्डाङ्गीकारेणदिव्यावलम्बने कृते सामन्तादिदृष्टप्रमाणसद्भावे-ऽपि दिव्यं ग्राह्यमिति विकल्पनिवारणायस्थावरेष्वित्यादि पितामहवचनं नात्यन्तिकदिव्यंनिराकरणाय लिखिताद्यभावे स्थावरादिषुनिर्णयाप्रसक्तेः ॥
* ॥
अथ द्रव्यसंख्यया दिव्यविशेषाः । विष्णुः ।अथ समयक्रियाराजद्रोहसाहसेषु यथाकामंनिःक्षेपर्णस्तेयेष्वर्थप्रमाणादिति । समयो दिव्यंराजद्रोहादिषु यथाकामं राजेच्छानुरोधाद्दिव्यंनिःक्षेपादिषु तु धनप्रमाणतारतम्यादित्यर्थः ।बृहस्पतिः ।“संख्या रश्मिरजोमूला मनुना समुदाहृता ।कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥
विषं सहस्रेऽपहृते पादोने च हुताशनः ।त्रिभागोने च सलिलमर्द्धे देयो धटः सदा ॥
चतुःशताभियोगे तु दातव्यस्तप्तमाषकः ।त्रिशते तण्डुला देयाः कोषश्चैव तदर्द्धके ॥
शते हृतेऽपह्नुते च दातव्यं धर्म्मशोधनम् ।गोचौरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ॥
एषा संख्या निकृष्टानां मध्यानां द्बिगुणा स्मृता ।चतुर्गुणोत्तमानान्तु कल्पनीया परीक्षकैः ॥
”रश्मिरजः ।जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥
”इति मनूक्तम् ॥
“कार्षापणान्ता पणान्ता कार्षापणः पण इतिपर्य्यायदर्शनात् । विनये दण्डे । एवञ्च सहस्रइत्यादौ पण इति ज्ञेयं उपक्रमात् निकृष्टानांजातिकर्म्मगुणैः । नासहस्राद्धरेदग्निं न तुलां नविषन्तथेति याज्ञवल्क्यवचनं मध्यमोत्तमविषय-त्वेन बृहस्पतिवचनैकवाक्यत्वादविरुद्धम् ।“सहस्रेषु धटं दद्यात् सहस्रार्द्धे तथायसम् ।अर्द्धस्यार्द्धे तु सलिलं तस्यार्द्धे तु विषं स्मृतम् ॥
”इति वचनं यत्राल्पापराधे पातित्यं तद्विषय-मिति । एतत् सर्व्वं स्तेयसाहसविषयम् । अप-ह्नवे तु कात्यायनः ।“दत्तस्यापह्नवो यत्र प्रमाणं तत्र कारयेत् ।स्तेयसाहसयोर्द्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥
सर्व्वद्रव्यप्रमाणन्तु ज्ञात्वा हेम प्रकल्पयेत् ।हेमप्रमाणयुक्तन्तु तदा दिव्यं प्रदापयेत् ॥
ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।अशीतेश्च विनाशे तु दद्याच्चैव हुताशनम् ॥
षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् ।विंशद्दशविनाशे तु कोषपानं विधीयते ॥
पञ्चाधिकस्य वा नाशे ततोऽर्द्धार्द्धस्य तण्डुलाः ।ततोऽर्द्बार्द्धविनाशे तु स्पृशेत् पुत्रादिमस्तकान् ॥
ततोऽर्द्धार्द्धविनाशे तु लौकिक्यश्च क्रियाः स्मृताः ।एवं विचारयन्राजा धर्म्मार्थाभ्यां न हीयते ॥
”सुवर्णानां पञ्च कृष्णलको माषस्ते सुवर्णस्तुषोडश इत्युक्ताशीतिरक्तिकापरिमितहेम्नां नाशेअपह्नवे वा दशाधिकस्य पञ्चाधिकस्य वाविंशस्य नाशे कोषपानमित्यर्थः । तण्डुलाः पुन-रल्पचौर्य्याभिशङ्कायामेव न तु साहसादौ ।चौर्य्ये च तंण्डुला देया नान्यत्रेति विनिश्चय इतिपितामहस्मृतेः । तप्तमाषस्तु महाचौर्य्याभि-शङ्कायाम् ।महाचौर्य्याभियुक्तानां तप्तमाषो विधीयते ।इति स्मृतेः ॥
व्यवहारमातृकायाम् ।“समत्वं साक्षिणां यत्र दिव्यैस्तमपि शोधयेत् ।प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु ॥
दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः ॥
”इति दिव्यतत्त्वम् ॥
* ॥
धटादिनवविधपरीक्षा तत्तत्शब्दे द्रष्टव्या ॥
(“बुद्धिः पश्यति या भावान् बहुकारणयोगजान् ।युक्तिस्त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया ॥
एषा परीक्षा नास्त्यन्या यया सर्व्वं परीक्ष्यते ।परीक्ष्यं सदसच्चैव तया चास्ते पुनर्भवः ॥
”इति चरके सूत्रस्थाने एकादशेऽध्याये ॥
“तत्र चेद्भिषगभिषग्वा भिषजं पृच्छेद्बमनविरे-चनास्थापनानुवासन-शिरोविरेचनानि प्रयोक्तु-कामेन भिषजा कतिविधया परीक्षया कति-विधं परीक्ष्यं कश्चात्र परीक्ष्यविशेषः कथञ्चपरीक्षितव्यं किंप्रयोजना च परीक्षा क्व चवमनादीनां प्रवृत्तिः क्व च निवृत्तिः प्रवृत्ति-निवृत्तिलक्षण-संयोगे च किं नैष्ठिकं कानि चवमनादीनां भेषजद्रव्याणि उपयोगं गच्छ-न्तीति । स एवं पृष्टो यदि मोहयितुमिच्छेत्ब्रूयादेनं बहुविधा परीक्षा तथा परीक्ष्यविधि-भेदः कतमेन विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्याभिन्नभेदाग्रं भवान् पृच्छत्याख्यायमानं नेदानींभवतोऽन्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्यभिन्नस्याभिलषितमर्थं श्रोतुमहमन्येन परीक्षाविधिभेदप्रकृत्यन्तरेण परीक्ष्यं भित्त्वार्थमाच-क्षाण इच्छां पूरयेयमिति ।द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षमनुमानञ्चएतत्तु द्वयमुपदेशश्च परीक्षात्रयमेवमेषाद्विविधा परीक्षा त्रिविधा वा सहोपदेशेन ।दशविधं परीक्ष्यं कारणादि यदुक्तमग्रे तदिहभिषगादिषु संसार्य्य सन्दर्शयिष्यामः इह कार्य्य-प्राप्तेः कारणं भिषक्करणं पुनर्भेषजं कार्य्य-योनिर्धातुवैषम्यं कायं धातुसाम्यं कार्य्यफलंसुखावाप्तिः अनुबन्ध आयुः देशो भूमिरा-तुरश्च कालः संवत्सरश्चातुरावस्था च प्रवृत्तिःप्रतिकर्म्मासमारम्भः उपायो भिषगादीनांसौष्ठवमभिविधानञ्च सम्यगिहाप्यस्योपायस्यंविषयः पूर्व्वेणैवोपायविशेषेण व्याख्यात इतिकारणादीनि दश दशसु भिषगादिषु संसार्य्य-सन्दर्शितानि तथैवानुपूर्व्व्या एतद्दशविधपरीक्ष्य-मुक्तम् ।तस्य यो यो विशेषो यथा यथा च परीक्षितव्यःस स तथा तथा व्याख्यास्यते कारणं भिषगि-त्युक्तमग्रे तस्य परीक्षा भिषङ्नाम यो भिषज्यतियः सूत्रार्थप्रयोगकुशलः यस्य चायुः सर्व्वथा-विदितम् । यथावत् सर्व्वधातुसाम्यं चिकीर्षन्ना-त्मानमेवादितः परीक्षेत गुणेषु गुणतः कार्य्याभि-निर्वृत्तिं पश्यन् कच्चिदहमस्य कार्य्यस्याभिनिर्व-र्त्तने समर्थो नवेति ।” इति चरके विमानस्थाने-ऽष्टमेऽध्याये ॥
)
वाचस्पत्यम्
Sanskritकृदन्तरूपमाला
Sanskrit1 {@“ईक्ष दर्शने”@} 2 ईक्षकः-क्षिका, ईक्षकः-क्षिका, 3 ईचिक्षिषकः-षिका
ईक्षिता-त्री, ईक्षयिता-त्री, ईचिक्षिषिता-त्री
-- ईक्षयन्-न्ती, ईक्षयिष्यन्-न्ती-ती
4 5 कृष्णाय ईक्षमाणः, 6 ईक्षयमाणः, ईचिक्षिषमाणः
ईक्षिष्यमाणः, ईक्षयिष्यमाणः, ईचिक्षिषिष्यमाणः
7 ईट्-ईक्षौ-ईक्षः
-- -- ईक्षितः-तं-तवान्, ईक्षितः, ईचिक्षिषितः-तवान्
ईक्षः, प्रतीक्षः, प्रेक्षी 8, 9 भरतप्रतीक्षः- 10 क्षा, 11 अवसरप्रतीक्षः, ईचिक्षिषुः, ईचिक्षयिषुः
ईक्षितव्यम्, ईक्षयितव्यम्, ईचिक्षिषितव्यम्
ईक्षणीयम्, ईक्षणीयम्, ईचिक्षिषणीयम्
ईक्ष्यम्, ईक्ष्यम्, ईचिक्षिष्यम्
ईषदिक्षः-दुरीक्षः-स्वीक्षः
-- -- ईक्ष्यमाणः, ईक्ष्यमाणः, ईचिक्षिष्यमाणः
ईक्षः, व्यतीक्षा 12, ईक्षः ईचिक्षिषः
ईक्षितुम्, ईक्षयितुम्, ईचिक्षिषितुम्
ईक्षा, परीक्षा, ईक्षणा, ईचिक्षिषा, ईचिक्षयिषा
ईक्षणम्, ईक्षणम्, ईचिक्षिषणम्
ईक्षित्वा, ईक्षयित्वा, ईचिक्षिषित्वा
13 प्रेक्ष्य-परीक्ष्य, समीक्ष्य, समीचिक्षिष्य
ईक्षम् २, ईक्षित्वा २, ईक्षम् २, ईक्षयित्वा २, ईचिक्षिषम् २
ईचिक्षिषित्वा २। 14
01 (७८)
02 (१-भ्वादिः-६१०। सक। सेट्। आत्म।)
03 [[१। ‘कुहोश्चुः’ (७-४-६२) इत्यभ्यासस्य चुत्वम्।]]
04 [पृष्ठम्००८०+ २७]
05 [[१। ‘राधीक्ष्योर्यस्य विप्रश्नः’ (१-४-३९) इति कृष्णस्य सम्प्रदानसंज्ञा।]]
06 [[आ। ‘वीक्षमाणो मृगं रामः चित्रवृत्तिं विसिष्मिये।।’ (भ। का। ५-५१)। ‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा। तदुपग्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनि- श्रेणी।।’ इति प्रक्रियासर्वस्वे।]]
07 [[२। ‘स्कोः’ (८-२-२९) इति कलोपः।]]
08 [[३। ‘सुप्यजातौ णिनिः’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
09 [[४। ‘ईक्षिक्षमिभ्यां च’ (वा। ३-२-१) इति कर्मण्युपपदे णः। टाप्।]]
10 [[B। ‘ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले।’ (भ। का। ३-२३)।]]
11 [[C। ‘आसीत राजावसरप्रतीक्षः तदा प्रयासं वितथं न कुर्यात्।।’ (भ। का। १२-२९)।]]
12 [[५। कर्मव्यतीहारे विवक्षितेऽपि अभिधानस्वाभाव्यात् अत्र णच् नेष्ट इति स्पष्टं भाष्ये (३-३-४३)।]]
13 [[ड्। ‘सङ्क्लेशितस्वकथदक्षणदीक्षितं तं प्रेक्ष्यैष जन्मफलमीषितवान् महात्मा।।’ (धा। का। १-७७)।]]
14 [पृष्ठम्००८१+ २६]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
