| YouTube Channel

परिस्पन्दमानः (parispandamAnaH)

 
शब्दकल्पद्रुमः
Sanskrit
परिस्पन्दमानः, त्रि, (परिस्पन्दते इति परि +स्पन्द + शानच् ।) सर्व्वतोभावेन कम्पमानः ।यथा “अनवरतपरिस्पन्दमाना परिमित-पवनादिपरमाणुचेतनसंयोगसन्तानान्तःपाति-व्यक्तीनामविरतमेवोपरमात् ।” इति सामान्य-लक्षणायां शिरोमणिः