| YouTube Channel

परिव्राट् (parivrAT)

 
Wordnet
Sanskrit
Synonyms:
परिव्राजकः, परिव्राट्, संन्यासी
noun
यः सन्यस्तवृत्त्या जीवति।
"चित्रकूटे एकः महान् परिव्राजकः माम् मिलितवान्।"
शब्दकल्पद्रुमः
Sanskrit
परिव्राट्, [ज्]
पुं,
(परित्यज्य सर्व्वं विषय-भोगं गृहस्थाश्रमाद् व्रजतिगच्छतीति परि + व्रज् + क्विप् दीर्घश्च ।)चतुर्थाश्रमी तत्पर्य्यायः भिक्षुः कर्म्मन्दी ३पाराशरी मस्करी इत्यमरः ४२
सन्न्यासी श्रमणः इति जटाधरः
परि-व्राजकः पराशरी व्रजकः १० इति शब्द-रत्नावली
तस्य लक्षणं यथा, गरुडपुराणे ।“सर्व्वारम्भपरित्यागो भैक्ष्याश्यं ब्रह्ममूलता ।निष्परिग्रहताद्रोहसमताः सर्व्वजन्तुषु
प्रियाप्रियपरिष्वङ्गे सुखदुःखाविकारिता ।संवाह्याभ्यन्तरं शौचं सुखदुःखाविकारिता
सर्व्वेन्द्रियसमाहारो धारणा ध्याननित्यता ।भावसंशुद्धिरित्येष परिव्राड्वर्य्य उच्यते