| YouTube Channel

परिवेषिका (pariveSikA)

 
Shabdartha Kaustubha
Kannada
परिवेषिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಊಟ ಬಡಿಸುವ ಹೆಂಗಸು
निष्पत्तिः - > परि+विषु (सेचने) "ण्वुल्" (३-१-१३३), स्त्रियां "टाप्" (४-१-४)
व्युत्पत्तिः - > परिवेषति
प्रयोगाः - > "निरीक्ष्य रम्याः परिवेषिका ध्रुवम्"
उल्लेखाः - > नैष० १६-१०५
विस्तारः - > "स्नाता विशुद्धवसना नवधूपिताङ्गी कर्पूरसौरभमुखी नयनाभिरामा। बिम्बाधरा शिरसि बद्धसुगन्धपुष्पा मन्दस्मिता क्षितिभृतां परिवेषिका स्यात्" ಹೆಂಗಸಿನ ಲಕ್ಷಣ: ಸ್ನಾನಮಾಡಿ ಶುಭ್ರವಸ್ತ್ರವನ್ನು ಉಟ್ಟು ದೇಹಕ್ಕೆ ಸುಗಂಧಪುಡಿಯ ಲೇಪನ ಮಾಡಿ ನೋಡಲು ಸುಂದರಿಯಾಗಿಯೂ ಸುವಾಸನೆಯ ಪುಷ್ಪಗಳನ್ನು ಮುಡಿದುಕೊಂಡು ಬಾಯಿಂದ ಕರ್ಪೂರಾದಿ ಸೌರಭವನ್ನು ಹೊಮ್ಮಿಸುತ್ತ ಮಂದಹಾಸಯುಕ್ತಳಾಗಿಯೂ ಇರುವ ಹೆಂಗಸು ರಾಜನಿಗೆ ಪರಿವೇಷಣ ಮಾಡಬೇಕು.
शब्दकल्पद्रुमः
Sanskrit
परिवेषिका,
स्त्री,
(परिवेषति या परि + विष्+ ण्वुल् स्त्रियां टाप् अत इत्वञ्च ।) परि-वेषणकर्त्त्री तस्या लक्षणं यथा, --“स्नाता विशुद्धवसना नवधूपिताङ्गीकर्पूरसौरभमुखी नयनाभिरामा ।विम्बाधरा शिरसि वद्धसुगन्धिपुष्पामन्दस्मिता क्षितिभृतां परिवेषिका स्यात्
”इति पाकराजेश्वरः