| YouTube Channel

परिवेषणं (pariveSaNaM)

 
Apte 1890
English
परिवेषणं 1 Serving up meals, waiting, distributing food.
2 Enclosing, surrounding.
3 A halo round the sun or moon.
4 Circumference.
शब्दकल्पद्रुमः
Sanskrit
परिवेषणं,
क्ली,
(परि + विष् + णिच् + ल्युट् ।) वेष्ट-नम् भोजनार्थं भोजनपात्रे अन्नादेर्दानम् ।अथ श्राद्धे परिवेषणं मनुः ।“पाणिभ्यान्तूपसंगृह्य स्वयमन्नस्य वर्द्धितम् ।विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत्
अन्नस्येति तृतीयार्थे षष्ठी वर्द्धितं पूरितं पात्र-मिति शेषः उपनिक्षिपेत् परिवेषणार्थम् ।तथा पाकस्थाल्या आकृष्य प्रथमं भोजन-पात्रे देयं किन्तु स्थाल्यादिकं पाणिभ्यां पात्र-समीपे भूमौ संस्थाप्य पश्चात् पाणिभ्यां पात्रा-न्तरिताभ्यां श्राद्धे परिवेषयेत् उभाभ्यामपिहस्ताभ्यामाकृष्य परिवेषयेदिति मत्स्यपुरा-णात् यत्तु श्राद्धे परिवेषणन्तु दक्षिणपाणि-मात्रेणैवाङ्गानभिधानादिति मैथिलोक्तं तन्न ।एकेन पाणिना दत्तं शूद्रादत्तं भक्षयेदित्यादिपुराणीयेन एकपाणिदत्तशूद्रादत्तभक्षणनिषेधेनतन्मात्रपरिवेषणस्यापि निषिद्धत्वात् पाणिभ्या-मपि पात्रान्तरितं कृत्वा देयम् ।हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि ।दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते किल्विषम्
तस्मादन्तरितं देयं पर्णेनाथ तृणेन वा ।प्रदद्यान्न तु हस्तेन नायसेन कदाचन
इति वशिष्ठवचनेन सामान्यतोऽभिधानात् पितृ-भक्तितरङ्गिण्यामप्येवम् मनुः ।गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु ।विन्यसेद्यत्नतः सम्यग्भूमावेव समाहितः
आमिषं पानपात्रञ्च भोक्तुर्दक्षिणतो न्यसेत् ।भक्ष्यं भोज्यञ्च विविधं मूलानि फलानि
हृद्यानि चैव मांसानि पानानि सुरभीणि ।उपनीय तत् सर्व्वं शनकैः सुसमाहितः
परिवेषयेत् प्रयतो गुणान् सर्व्वान् प्रचोदयन् ।गुणान् उपकरणानि भूमावेव तु व्यञ्जनादि-पात्राणि अन्नादि पात्रोपरि निक्षिपेत् ।” इतिश्राद्धतत्त्वम्