| YouTube Channel

परिवेत्ता (parivettA)

 
शब्दकल्पद्रुमः
Sanskrit
परिवेत्ता, [ऋ]
पुं,
(परित्यज्य ज्येष्ठं भ्रातरंविन्दति भार्य्यामग्न्यादिकं वा लभते इति विदलाभे + “ण्वुल्तृचौ ।” १३३ इतितृच् ।) अनूढज्येष्ठे कृतविवाहकनिष्ठः इत्युद्-वाहतत्त्वम्
(यथा, मनुः १७१ ।“दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।परिवेत्ता विज्ञेयः परिवृत्तिस्तु पूर्व्वजः
”)