| YouTube Channel

परिवृत्तिसह (parivRttisaha)

 
L R Vaidya
English
parivftti-saha {% a. %} (a word) capable of being substituted by another without injury to the sense.
वाचस्पत्यम्
Sanskrit
परिवृत्तिसह
त्रि०
परिवृत्तिं परावृत्तिंसहते सह--अच् ।यौगिके शब्दभेदे पूर्वोत्तरपदयोः परावृत्त्यायोग-लभ्यार्थं बोधयतीति तस्य तथात्वम् तत्र केचित् पूर्वपद-परावृत्त्यायोगलभ्यार्थबोधकाः केचिदुत्तरपदपरावृत्तत्त्या ।केचित्तु नोभयिपदपरावृत्तिसहा यथाह हेमच०“स्वस्वामित्वादिसम्बन्धं तत्राहुर्न्नामतद्वताम् स्वात्पालधनभुग्नेतृपतिमत्वर्थकादयः भूपालो भूधनो भू-भुग्भूनेता भूपतिस्तथा भूमांश्चेतिकवेरूद्याज्ञेयोदाहर-णावली जन्यात् कृत्कर्तृसृट्स्रष्टृविधातृकरसूसमाः ।जनकाद्योनिजरुहजन्मभूसूत्यणादयः धार्य्याद्ध्वजा-स्त्रपाण्यङ्कमौलिभूषणभृन्निभाः शालिशेखरमत्वर्थ-भागिभर्तृधरा अपि भोज्याद्भुगन्धोव्रतलिट्पायि-प्राशाशनादयः पत्युःकान्तप्रियतमाबधूप्रणयिनी-निभाः कलत्राद्वररमणप्रणयीशप्रियादयः सख्युःसखिसमा बाह्याद्गामियानासनादयः जनेः खसृ-दुहित्रात्मजाग्रजावरजादयः आश्रयात्सद्मपर्यायश-यबासिसदादयः बध्याद्भिद्द्वेषिजिद्घातिध्रुग्रिपुध्वंसि-शासनाः अप्यन्तकारिदमनदर्पच्छिन्मथनादयः वि-वक्षितो हि सम्बन्ध एकतोऽपि पदात्ततः प्राक्प्रद-र्शितसम्बन्धिशब्दा योज्या यथोचितम् दृश्यते खलुवाह्यत्वे वृषस्य वृषवा हनः स्वत्वे पुनर्वृषपतिर्द्धार्य्यत्वेवृषलाञ्छनः अंशोर्द्धाय्यत्वेऽंशुमाली स्वत्वेऽंशुपति-रंशुमान् बध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुग-पि चिह्नैर्व्यक्तैर्भवेद्व्यक्तेर्जातिशब्दोऽपि वाचकः ।तथा ह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते अयुग्विषम-शब्दौ त्रिपञ्चसप्तादिवाचकौ त्रिनेत्रपञ्चेषुसप्तपला-शादिषु योजयेत् गुणशब्दो विरोध्यर्वं नञादिरितरो-त्तरः अभिधत्ते यथाकृष्णः स्यादसितः सितेतरः ।वार्द्ध्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे द्वयेऽपि भू-भृदाद्येषु पर्य्यायपरिवर्त्तनम् एवं परावृत्तिसहायोगाःस्युरिति यौगिकाः मिश्राः पुनः परावृत्त्यसहागी-र्वाणसन्निभाः”