| YouTube Channel

परिविन्दन् (parivindan)

 
शब्दकल्पद्रुमः
Sanskrit
परिविन्दन्, [त्]
पुं,
(परित्यज्य ज्येष्ठं भ्रातरंविन्दति अग्न्याधानभार्य्यादिकं लभते इति ।विद् + शतृ ।) परिवेदनकर्त्ता यथा, --“देशान्तरस्थक्लीवैकवृषणानसहोदरान् ।वेश्याभिसक्तपतितशूद्रतुल्यातिरोगिणः
जडमूकान्धवधिरकुब्जवामनकुष्ठकान् ।अतिवृद्धानभार्य्यांश्च कृषिसक्तान् नृपस्य
धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा ।कुलटोन्मत्तचौरांश्च परिविन्दन् दुष्यति
”इत्युद्वाहतत्त्वे छन्दोगपरिशिष्टम्