| YouTube Channel

परिवर्त्तिका (parivarttikA)

 
शब्दकल्पद्रुमः
Sanskrit
परिवर्त्तिका,
स्त्री,
मेढ्रजातक्षुद्ररोगविशेषः तल्ल-क्षणमाह ।“मर्द्दनात् पीडनाद्वापि तथैवाप्यभिघाततः ।मेढ्रचर्म्म यदा वायुर्भजते सर्व्वतश्चरन्
तदा वातोपसृष्टन्तु तच्चर्म्म परिवर्त्तते ।सवेदनं सदाहञ्च पाकञ्च व्रजति क्वचित्
मणेरधस्तात् कोषस्तु ग्रन्थिरूपेण लम्बते ।मारुतागन्तुसम्भूतां विन्द्यात्तां परिवर्त्तिकाम् ।सकण्डुः कठिना वापि सैव श्ले ष्मसमन्विता
”अस्यां वातजायामपि पित्तानुबन्धो बोद्धव्योदाहपाकभावात् कोषः चर्म्मकोषः
*
अथ तस्याश्चिकित्सा ।“परिवृत्तं घृताभ्यक्तं सुस्विन्नमुपनाहयेत् ।त्रिरात्रं पञ्चरात्रं वा वातघ्नैः शाल्वणादिभिः
ततोऽभ्यज्य शनैश्चर्म्म पाटयेत् पीडयेन्मणिम् ।प्रविष्टे चर्म्मणि मणौ स्वेदयेदुपनाहयेत्
दद्याद्वातहरान् वस्तीन् स्निग्धान्यन्नानि भोजयेत् ।”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
परिवर्त्तिका स्त्री मेढ्रगतरोगभेदे “मर्दनात् पीडनाच्चापितथैवात्यभिथाततः मेढ्रचर्म यदा वायुर्भजते सर्वतश्च-रन् तदा वातोपसृष्टन्तु चर्म प्रतिनिवर्त्तते मणे-रधस्तात् कोषश्च ग्रन्थिरूपेण लम्बते सवेदनं सदाहञ्चपाकञ्च व्रजति क्वचित् मारुतागन्तुसम्भूतां विद्यान्तांपरिवर्त्तिकाम् सकण्डूः कठिना चैव तथाश्लेष्मससु-त्थिता” सुश्रु०