| YouTube Channel

परिवर्त्तः (parivarttaH)

 
शब्दकल्पद्रुमः
Sanskrit
परिवर्त्तः,
पुं,
(परिवर्त्तनमिति परि + वृत् + भावेघञ् ।) विनिमयः (यथा, रामायणे ।१०५ २५ ।“हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिवागतम् ।ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षयः
”)कूर्म्मराजः अपवर्त्तनम् इति मेदिनी
युगान्तः इति हेमचन्द्रः
ग्रन्थविच्छेदः ।इति जटाधरः
मृत्युपुत्त्रस्य दुःसहस्यौरसेनकलिकन्यानिर्म्माष्टिगर्भजाताष्टपुत्त्रान्तर्गततृतीय-पुत्त्रः (यथा, मार्कण्डेये ५१ ।“अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः ।दन्ताकृष्टिस्तथोक्तिश्च परिवर्त्तस्तथापरः
”तन्नामनिरुक्तिर्यथा तत्रैव १४ श्लोके ।“अन्यगर्भे परान् गर्भान् सदैव परिवर्त्तयन् ।रतिमाप्नोति वाक्यञ्च विवक्षोरन्यदेव यत्
परिवर्त्तकसंज्ञोऽयं तस्यापि सितसर्षपैः ।रक्षोघ्नमन्त्रजप्यैश्च रक्षां कुर्व्वीत तत्त्ववित्
”)तस्य पुत्त्रयोः कर्म्मादि यथा, --“परिवर्त्तसुतौ द्बौ तु विरूपविकृतौ द्बिज ! ।तौ तु वृक्षाद्रिपरिखाप्राकाराम्भोधिसंश्रयौ
गुर्व्विण्याः परिवर्त्तन्तौ कुरुतः पादपादिषु ।क्रोष्टुके ! परिवर्त्तः स्याद्गर्भस्यान्योदरात्ततः
वृक्षञ्चैव नैवाद्रिं प्राकारं पयोनिधिम् ।परिखां समाक्रामेदबला गर्भधारिणी
”इति मार्कण्डेयपुराणे ५१ ६२ -- ६४