| YouTube Channel

परिवर्ज्जनं (parivarjjanaM)

 
शब्दकल्पद्रुमः
Sanskrit
परिवर्ज्जनं,
क्ली,
(परिवर्ज्यते परित्यज्यते प्राणैर्येन ।परि + वृज् + णिच् + ल्युट् ।) मारणम् इत्य-मरः ११४
(भावे ल्युट् ।) परित्यागः ।यथा, उद्भटः ।“गोप्यो दोषो मथुराङ्गनानांधूर्त्तस्य कृष्णस्य हि रीतिरेषा ।विपर्य्ययो येन कृतः स्वपित्रो-स्तस्योपपत्नीपरिवर्ज्जनं किम्
”परिवर्ज्जनीया यथा, कौर्म्मे उपरिभागे १५ अः ।“एकशय्यासनं पंक्तिभाण्डपक्वान्नमिश्रणम् ।याजनाध्ययने योनिस्तथैव सहभोजनम्
सहाध्यायस्तु दशमः सहयाजनमेव ।एकादश समुद्दिष्टा दोषाः साङ्कर्य्यसङ्गिताः
समीपे चाप्यवस्थानात् पापं संक्रमते नृणाम् ।तस्मात् सर्व्वप्रयत्नेन साङ्कर्य्यं परिवर्ज्जयेत्
”“यस्मिन्देशे सम्मानो प्रीतिर्न बान्धवाः ।न विद्यागमः कश्चित्तं देशं परिवर्ज्जयेत्
”इति चाणक्यम्
“ब्राह्मणं बालिशं क्षत्त्रमयोद्धारं विशं जडम् ।शूद्रमक्षरसंयुक्तं दूरतः परिवर्ज्जयेत्
कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् ।कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्ज्जयेत्
”इति गरुडपुराणे ११३ अध्यायः
(“यस्य वै भाषमाणस्य रुजत्यूर्द्धमुरोभृशम् ।अन्नञ्च च्यवते भुक्तं स्थितञ्चापि जीर्य्यति
बलञ्च हीयते यस्य तृष्णा चाभिप्रवर्द्धते ।जायते हृदि शूलञ्च तं भिषक् परिवर्ज्जयेत्
”इति चरकेणेन्द्रियस्थाने षष्ठेऽध्याय उक्तम्
)