| YouTube Channel

परिमण्डलं (parimaNDalaM)

 
शब्दकल्पद्रुमः
Sanskrit
परिमण्डलं, त्रि, (परि सर्व्वतो मण्डलम् ।) वर्त्तुलम् ।इति हेमचन्द्रः
(यथा, भागवते २२ १९ ।“लक्षोत्तरं सार्द्धनवकोटियोजनपरिमण्डलं भू-वलयस्य क्षणेन सगव्यूत्युत्तरं द्बिसहस्रयोजनानिस भुङ्क्ते
परमाणुपरिमाणम् परिमाण-विशिष्टः परमाणुः इति वैशेषिकसूत्रविवृतिः
शब्दोऽयं न्यग्रोधशब्देन युक्तः अर्थान्तरं प्रका-शयति
पुं,
पुरुषविशेषः तस्य लक्षणं यथा, मात्स्ये ११८ अध्याये ।“न्यग्रोधौ तु स्मृतौ बाहू व्यासो न्यग्रोध उच्यते ।व्यासेन उच्छ्रयो यस्य अध उर्द्धञ्च देहिनः ।समोच्छ्रयपरीणाहो न्धग्रोधपरिमण्डलः
”स्त्री, लक्षणान्वितरमणीविशेषः यथा, शब्द-रत्नावल्याम् ।“स्तनौ सुकटिनौ यस्या नितम्बे विशालता ।मध्ये क्षीणा भवेद् या न्यग्रोधपरिमण्डला
”पर्व्वतविशेषः यथा महाभारते ११ ।“परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्व्वतः ।आदित्यतरुणाभासो विधूम इव पावकः
”)