| YouTube Channel

परिभूतं (paribhUtaM)

 
शब्दकल्पद्रुमः
Sanskrit
परिभूतं, त्रि, (परिभूयते स्म परि + भू + क्तः ।)अनादृतम् तत्पर्य्यायः अवगणितम् अव-मतम् अवज्ञातम् अवमानितम् इत्य-मरः १०६ अभिभूतम् इति जटा-धरः
अप्रस्तुतम् इति शब्दरत्नावली
(यथा, सारावल्यां विंशाध्याये ।“परिभूतं सुखरहितं कुलटापुत्त्रमतिपापरतञ्च ।जनयति नक्षत्रपतिः क्षितिसुतदृष्टो झषि शूरम्
”)