| YouTube Channel

परिप्लवं (pariplavaM)

 
शब्दकल्पद्रुमः
Sanskrit
परिप्लवं, त्रि, (परिप्लवते इति प्लु + अच् ।) चञ्च-लम् इत्यमरः ३५ ।(यथा, माघे १४ ६८ ।“मत्कुणाविव पुरा परिप्लवौसिन्धुनाथशयने निषेदुषः ।गच्छतः स्म मधुकैटभौ विभो-र्यस्य नैद्रसुखविघ्नतां क्षणम्
”पुं, राज्ञः सुखीनलस्य पुत्त्रः यथा, भागवते ।९ २२ ४२ ।“सुनीथस्तस्य भविता नृचक्षुर्यत्सुखीनलः ।परिप्लवः सुतस्तस्मान्मेधावी सुनयात्मजः
”)