परिणामशूल (pariNAmazUla)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaपरिणामशूल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ವಿಧ ಹೊಟ್ಟೆನೋವು/ನೋವನ್ನುಂಟುಮಾಡುವ ಒಂದು ವಿಧ ವಾತರೋಗ
व्युत्पत्तिः - > परिणामे शूलम् यस्य
विस्तारः - > "स्वैर्निदानैः प्रकुपितो वायुः सन्निहितो यदा । कफपित्ते समावृत्य शूलकारी भवेद्बली" , "भुक्ते जीर्यति यच्छूलं तदेव परिणामजम्" ಆಹಾರವು ಜೀರ್ಣವಾಗುವ ಸಮಯದಲ್ಲಿ ವಾತದೋಷದಿಂದ ಸಂಭವಿಸುವ ಈ ವ್ಯಾಧಿಗೆ ಪರಿಣಾಮಶೂಲವೆಂದು ಹೆಸರು.
शब्दकल्पद्रुमः
Sanskritपरिणामशूलः, (परिणामे चरमावस्थायांशूलं यस्य । यद्वा परिणामे भुक्तान्नादेः परि-पाके उत्पद्यते शूलं यस्मात् ।) रोगविशेषः ।तस्योत्पत्तिर्यथा, --“स्वैर्निदानैः प्रकुपितो वायुः सन्निहिते यदा ।कफपित्ते समावृत्य शूलकारी भवेद्बली ॥
”तस्य लक्षणं यथा, --“भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम् ।तस्य लक्षणमप्येतत् समासेनाभिधीयते ॥
”वातिकस्य तस्य लक्षणं यथा, --“आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः ।स्निग्धाष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् ॥
”पैत्तिकस्य तस्य लक्षणं यथा, --“तृष्णादाहारतिस्वेदकट्वम्ललवणोत्तरम् ।शूलं शीतशमग्रायं पैत्तिकं लक्षयेद्भिषक् ॥
”श्लैष्मिकस्य तस्य लक्षणं यथा, --“छर्द्दिहृल्लाससम्मोहं स्वल्परुग्दीर्घसन्तति ।कटुतिक्तोपशान्तौ च तद्विज्ञेयं कफात्मकम् ॥
”त्रिदोषजस्य तस्य लक्षणं यथा, --“संसृष्टलक्षणं बुद्धा द्बिदोषं परिकल्पयेत् ।त्रिदोषजमसाध्यन्तु क्षीणमांसबलानलम् ॥
”इति माधवकरः ।तस्यौषधं यथा, गरुडपुराणे ।“लौहचूर्णसमायुक्तं त्रिफलाचूर्णमेव वा ।मधुना स्वादितं रुद्र ! परिणामाख्यशूलनुत् ॥
”(चिकित्सास्य यथा, --“वमनं तिक्तमधुरैर्विरेकश्चापि शस्यते ।वस्तयश्च हिताः शूले परिणामसमुद्भवे ॥
विडङ्गतण्डुलव्योषं त्रिवृद्दन्तीसचित्रकम् ।सर्व्वाण्येतानि संहृत्य श्लक्ष्णचूर्णानि कारयेत् ॥
गुडेन मोदकं कृत्वा भक्षयेत् प्रातरुत्थितः ।उष्णोदकानुपानन्तु दद्यादग्निविवर्द्धनम् ॥
जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ॥
नागरगुडतिलकल्कं पयसा संसाध्य यः पुमा-नद्यात् ।उग्यं परिणामशूलं तस्यापैति सप्तरात्रेण ॥
”“तिलनागरपथ्यानां भागं शम्बूकभस्मनाम् ।द्विभागगुडसंयुक्तं गुडीं कृत्वाक्षभागिकाम् ॥
शीताम्बुपानं पूर्व्वाह्णे भक्षयेत् क्षीरभोजनः ।सायाह्ने रसकं पीत्वा नरो मुच्येत दुर्ज्जयात् ॥
परिणामसमुत्थाच्चशूलाच्चिरभवादपि ।शम्बूकजं त्र्यूषणञ्च पञ्चैव लवणानि च ॥
समांशां गुडिकां कृत्वा कलम्बीकरसेन वा ।प्रातर्भोजनकाले वा भक्षयेत्तु यथाबलम् ॥
शूलाद्विमुच्यते जन्तुः सहसा परिणामजात् ॥
यः पिबति सप्तरात्रं शक्तूनेकान् कलाययूषेण ।स जयति परिणामरुजं चिरजामपि किमुत-नूतनजाम् ॥
लौहचूर्णं वरायुक्तं विलीढं मधुसर्पिषा ।परिणामशूलं शमयेत्तन्मलं वा प्रयोजितम् ॥
सामुद्रं सैन्धवं क्षारो रुचकं रौमकं विडम् ।दन्ती लौहरजः किट्टं त्रिवृच्छूरणकं समम् ॥
दधिगोमूत्रपयसा मन्दपावकपाचितम् ।तद्यथाग्निबलं चूर्णं पिबेदुष्णेन वारिणा ॥
जीर्णाजीर्णे तु भुञ्जीत मांसादिघृतसाधितम् ।नाभिशूलं प्लीहशूलं यकृद्गुल्मकृतञ्च यत् ॥
विद्रध्यष्ठीलिकं हन्ति कफवातोद्भवन्तथा ।शूलानामपि सर्व्वेषामौषधं नास्ति तत् परम् ॥
परिणामसमुत्थस्य विशेषेणान्तकृन्मतम् ॥
”इति समुद्राद्यं चूर्णम् ॥
* ॥
“सपिप्पलीगुडं सर्पिः पचेत् क्षीरे चतुर्गुणे ।विनिहन्त्यम्लपित्तञ्च शूलञ्च परिणामजम् ॥
”इति गुडपिप्पलीघृतम् ॥
* ॥
“क्वाथेन कल्केन च पिप्पलीनांसिद्धं घृतं माक्षिकसंप्रयुक्तम् ।क्षीरानुपानं विनिहन्त्यवश्यंशूलं प्रवृद्धं परिणामसंज्ञम् ॥
”इति पिप्पलीघृतम् ॥
* ॥
“मण्डूरं शोधितं पत्रीं लौहजां वा गुडेन तु ।भक्षयम्मुच्यते शूलात् परिणामसमुद्भवात् ॥
संशोध्य चूर्णितं कृत्वा मण्डूरस्य पलाष्टकम् ।शतावरीरसस्याष्टौ दध्नस्तु पयसस्तथा ॥
पलान्यादाय चत्वारि तथा गव्यस्य सर्पिषः ।विपचेत् सर्व्वमेकैध्यं यावत् पिण्डत्वमागतम् ॥
सिद्धन्तु भक्षयेन्मध्ये भोजनस्याग्रतोऽपि वा ।वातात्मकं पित्तभवं शूलञ्च परिणामजम् ॥
निहन्त्येव हि योगोऽयं मण्डूरस्य न संशयः ॥
”इति शतावरीमण्डूरम् ॥
* ॥
इति वैद्यकचक्रपाणिसंग्रहे शूलाधिकारे ॥
“अजीर्णान्नरसः प्रोक्तो दशमः परिणामजः ।”“जीर्णेऽन्ने च भवेद्यस्तु स ज्ञेयः परिणामजः ॥
”“लङ्घनं वमनञ्चैव विरेकश्चानुवासनम् ॥
निरूहो वस्ति कर्म्माणि परिणामे त्रिदोषजे ।चित्रकं त्रिवृता दन्ती विडङ्गं कटुकत्रयम् ॥
समं चूर्णं गुडेनाथ क्वारयेन्मोदकान् सुधीः ।भक्षयेत् प्रातरुत्थाय पश्चादुष्णोदकं पिबेत् ॥
परिणामोद्भवं शूलं हन्ति शीघ्रं नरस्य च ।यवानीहिङ्गु सिन्धूत्थक्षारं सौवर्च्चलाभया ।सुरामण्डेन पातव्या परिणामे त्रिदोषजे ॥
हिङ्गव्योषवचाजमोदहबुषा पथ्यायवानी शठीजातीपिप्पलीदाडिमवृकीतिन्तीडिचव्याग्नि-कम् ।तस्मादम्लसुवर्च्चला च यवजक्षारं तथा सर्ज्जिकासिन्धूत्थं विडचूर्णकं समकृतं स्याद्बीजपूरे रसे ॥
संभाव्यं सुकृतात्वनेन गुडिका चाक्षप्रमाणा तथाकल्को वातविकारिणां प्रददतः शूलार्शसःप्लीहकान् ॥
”“एष हिङ्ग्वादिको नाम सर्व्वशूलार्त्तिनाशनः ।सर्व्ववातविकारघ्नः सर्व्वक्षयनिवारणः ।परिणामोद्भवं शूलं वारयत्याश्वसंशयम् ॥
”इति हारीते चिकित्सितस्थाने नवमेऽध्याये ॥
वाचस्पत्यम्
Sanskritपरिणामशूल परिणामे शूलम् । शूलरोगभेदे “स्वै-र्निदानैः प्रकुपितो वायुः सन्निहितो यदा । कफपित्तेसमावृत्य शूलकारी भवेद्बली” । तस्य लक्षणं यथा“भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम् । तस्यलक्षणमप्येतत् समासेनाभिधीयते” वातिकस्य तस्य स-क्षणं यथा “आध्मानाटोपबिण्मूत्रविवन्धाऽरतिवेपनैः ।स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक्” पैत्तिकस्य तस्यलक्षणं यथा “तृष्णादाहारतिस्वेदकष्ट्वम्लवणोत्त-रम् । श्लं शीतशमप्रायं पैत्तिकं लक्षयेद्भिषक्” श्लैष्मि-कस्य तस्य लक्षणं यथा “छर्दिहृल्लाससम्मोहं स्वल्व-रुग्दीर्घ सन्तति । कटुतिक्तोपशान्तौ च तद्बिज्ञेयं कफा-त्मकम्” त्रिदोषजस्य तस्य लक्षणं यथा “संसृष्टलक्षणंबुड्घा द्विदोषं परिकल्पयेत् । त्रिदोगजमसाध्यन्तु क्षीण-मांसबलानलम्” माधबकरः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
