| YouTube Channel

परिग्रहः (parigrahaH)

 
Apte
English
परिग्रहः [parigrahḥ], 1 Seizing, holding, taking, grasping
आसन- रज्जुपरिग्रहे
R.*
9.46
शङ्कापरिग्रहः
Mu.*
1 'taking or entertaining a doubt'.
Surrounding, enclosing, encircling, fencing round.
Putting on, wrapping round (as a dress)
मौलिपरिग्रहः
R.*
18.38.
Assuming, taking
मानपरिग्रहः
Amaru.*
97
विवाहलक्ष्मी˚
U.*
4.
Receiving, taking, accepting, acceptauce
भौमो मुनेः स्थानपरिग्रहो$यम्
R.*
13.36
अर्ध्यपरिग्रहान्ते 7
12.16
Ku.*
6.53
विद्यापरिग्रहाय
Māl.
1
so आसनपरिग्रहं करोतु देवः
U.*
3 'your majesty will be pleased to take a seat or sit down'.
Possessions, property, belongings
त्यक्तसर्वपरिग्रह
Bg.*
4.21
R.*
15.55
V.*
4.26.
Taking in marriage, marriage
नवे दारपरिग्रहे
U.*
1.19
Māl.
5.27
असंशयं क्षत्रपरिग्रह- क्षमा
Ś.*
1.22
हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम्
Bh.*
1.9.
A wife, queen
प्रयतपरिग्रहद्वितीयः
R.*
1.95, 92
9.14
11.33
16.8
Ś.*
5.28, 31
परिग्रहबहुत्वे$पि
Ś.*
3.19
प्राप श्रियं मुनिवरस्य परिग्रहो$सौ Rām. Ch.
Taking under one's protection, favouring
धन्याः स्मो वः परिग्रहात्
U.*
7. 11
M.*
1.13
कुर्वन्ति पाण्डवपरिग्रहमेव पौराः Pañch.1.2.
Attendants, followers, train, retinue, suite
परिग्रहेण सर्वेण कोषेण महीयसा Śiva. B.8.4.
A household, family, members of a family.
The seraglio or household of a king, harem.
Anything received, a present
राजपरिग्रहो$यम्
Ś.*
1.
Assent, consent.
Taking possession of, acquiring.
A claim.
Entertaining, honouring, receiving (a guest
&c.
).
Mb.
* 1.195.1.
An entertainer.
Assistance.
A husband.
Respect, reverence.
Grace, favour.
Comprehension, understanding.
Undertaking, performing.
Subjugation
धर्षितो मत्परिग्रहः
Mb.
* 12.32.55.
Dominion.
Punishment.
Connection, relation.
Summing up, totality.
A house, residence.
Removing, taking away.
A curse
निर्मुक्तनिष्ठुरपरिग्रहपाशबन्धः Rām. Ch. (cf. पत्नीपरिजनादानमूलशापाः परिग्रहाः Ak.).
(In
Ved.
gram.
) The double mention of a word both before and after इति.
The form which precedes इति.
Root, origin.
The eclipse of the sun or moon.
An oath.
The rear of an army.
N.
of Viṣṇu.
The body
आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम्
Mb.
* 12. 32.57. (com. स्वभावेन चित्तेन मम परिग्रहं शरीरं आश्रयन्त्याः).
Administration
राज्यपरिग्रहः
Mb.
* 12.32.51.Comp. -अर्थीय
a.
generalizing
having the sense of comprehension
Nir.*
1.7. -द्वितीय
a.
accompanied by one's wife or family. -बहुत्वम् multitude of wives.
Apte 1890
English
परिग्रहः 1 Seizing, holding, taking, grasping
आसनरज्जुपरिग्रहे R. 9. 46
शंकापरिग्रहः Mu. 1. ‘taking or entertaining a doubt’.
2 Surrounding, enclosing, encircling, fencing round.
3 Putting on, wrapping round (as a dress)
मौलिपरिग्रहः R. 18. 38.
4 Assuming, taking
मानपरिग्रहः Amaru. 92
विवाहलक्ष्मी° U. 4.
5 Receiving, taking
accepting, acceptance
भौमो मुनेः स्थानपरिग्रहोऽयं R. 13. 36
अर्ध्यपरिग्रहांते 70
12. 16
Ku. 6. 53
विद्यापरिग्रहाय Māl. 1
so आसनपरिग्रहं करोतु देवः U. 3 ‘your majesty will be pleased to take a seat or sit down’.
6 Possessions, property, belongings
त्यक्तसर्वपरिग्रहः Bg. 4. 21
R. 15. 55
V. 4. 26.
7 Taking in marriage, marriage
नवे दारपरिग्रहे U. 1. 19
Māl. 5. 27
Ś. 1. 22.
8 A wife, queen
प्रयतपरिग्रहद्वितीयः R. 1. 95, 92
9. 14
11. 33
16. 8
Ś. 5. 28, 31
परिग्रहबहुत्वेऽपि Ś. 3. 20.
9 Taking under one's protection, favouring
U. 7. 11
M. 1. 13.
10 Attendants, followers, train, retinue, suite.
11 A household, family, members of a family.
12 The seraglio or household of a king, harem.
13 Anything received, a present
राजपरिग्रहोयं Ś. 1.
14 Assent, consent.
15 Taking possession of, acquiring.
16 A claim.
17 Entertaining, honouring, receiving (a guest &c.).
18 An entertainer.
19 Assistance.
20 A husband.
21 Respect, reverence.
22 Grace, favour.
23 Comprehension, understanding.
24 Undertaking, performing.
25 Subjugation.
26 Dominion.
27 Punishment.
28 Connection, relation.
29 Summing up, totality.
30 A house, residence.
31 Removing, taking away.
32 A curse.
33 (In Ved. Gram.) The double mention of a word both before and after इति.
34 The form which precedes इति.
35 Root, origin.
36 The eclipse of the sun or moon.
37 An oath.
38 The rear of an army.
39 N. of Viṣṇu.
Hindi
Hindi
स्वामित्व की संपत्ति से अधिक भावना
Apte Hindi
Hindi
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"पकड़ना, थामना, लेना, ग्रहण करना"
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"घेरना, बन्द करना, चारों ओर से घेरा डालना, बाड़ बनाना"
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
पहनना (वेशभूषा की भांति) लपेटना
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"धारण करना, लेना"
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"प्राप्त करना, लेना, स्वीकार करना, अंगीगार करना"
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"वैभव, संपत्ति, सामान"
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"आवाह, विवाह"
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"अपने रक्षण में लेना, अनुग्रह करना"
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"अनुचर, अनुसेवी, नौकर-चाकर, परिजन, सेवक समूह"
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"गृहस्थ, परिवार, परिवार के सदस्य "
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"राजा का अन्तःपुर, रनिवास"
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"जड, मूल"
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
सूर्य या चन्द्रमा का ग्रहण
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
शपथ
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
सेना का पिछला भाग
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
विष्णु का नाम
परिग्रहः
पुं*
- परि + ग्रह् + घञ्
"संक्षेप, उपसंहार"
परिग्रहः
पुं*
- परि+ग्रह+अच्
शरीर
परिग्रहः
पुं*
- -
प्रशासन
परिग्रहः
पुं*
- -
पत्नियों की बड़ी संख्या
Wordnet
Sanskrit
Synonyms:
विवाहः, उपयमः, परिणयः, उद्वाहः, उपयामः, पाणिपीडनम्, दारकर्मः, करग्रहः, पाणिग्रहणम्, निवेशः, पाणिकरणम्, संबन्धः, पाणिग्रहः, दारसम्बन्धः, उद्वहः, दारोपसंग्रहः, पाणिग्राहः, परिग्रहः, प्रोद्वाहः, संग्रहः, समुद्वाहः, परिणीतम्, अधिगमनम्, उद्वहनम्, उद्वाहनम्, करार्पणम्, दाराधिगमनम्, निवेशनम्, पतित्वम्, पतित्वनम्, परिग्रहत्वम्, परिणयनम्, बान्धुक्यम्, मैथुनम्
noun
सः धार्मिकः सामाजिकः वा संस्कारः येन स्त्रीपुरुषौ परस्परं पतिपत्नीरूपेण स्वीकुरुतः।
"सोहनस्य विवाहः राधया सह जातः।"
Synonyms:
शपथः, दिव्यम्, सत्यम्, समयः, प्रत्ययः, अभीषङ्गः, अभिषङ्गः, परिग्रहः, क्रिया, शापः, शपः, शपनम्, अभिशापः, परिशापः
noun
दृढनिश्चयात्मकं वचनम्।
"भोः शपथः अस्ति किमपि कथितं मया।"
Synonyms:
आदानम्, परिग्रहः, प्रतिग्रहः
noun
अन्यस्मात् ग्रहणस्य क्रिया।
"प्रतिवेशिना सह वस्तूनाम् आदानं प्रदानं प्रचलत्येव।"
Synonyms:
पत्नी, जाया, भार्या, गृहिणी, वधूः, जनी, सहधर्मिणी, सहचरी, दाराः, कलत्रम्, पाणिगृहीती, सधर्मिणी, धर्माचारिणी, गृहः, क्षेत्रम्, परिग्रहः, ऊढा
noun
सा परिणीता या पत्या उद्वाहविहीतमन्त्रादिना वेदविधानेनोढा।
"पत्न्याः गुणेनैव पुरुषाः सुखिनो भवन्ति।"
Tamil
Tamil
பரிக்3ரஹ: : பிடித்தல், எடுத்தல், சுற்றுதல், உடுத்தல், செல்வம், பொருள், சொத்து, பரிவாரம், மனைவி, திருமணம், நன்கொடை, தானம், க்ரஹணம், அடைதல், வேலைக்காரன்.
शब्दकल्पद्रुमः
Sanskrit
परिग्रहः,
पुं,
(परिग्रहणमिति परि + ग्रह +“ग्रह वृदृनिश्चिगमश्च ।” ५८ इतिअप् ।) प्रतिग्रहः (यथा, पञ्चतन्त्रे ।“कण्ठाश्लेषपरिग्रहे शिथिलता यन्नादराच्चुम्बसेतत्ते धूर्त्त ! हृदि स्थिता प्रियतमा काचिन्ममे-वापरा
”)सैन्यपश्चाद्भागः पत्नी भार्य्या (यथा, रघुः १४ ।“समनुकम्प्य सपत्नपरिग्रहा-ननलकानलकानवमां पुरीम्
”)परिजनः परिवारः आदानम् (यथा, रघुः ४६ ।“अनुभवन्नवदोलमृतूत्सवंपटुरपि प्रियकण्ठजिघृक्षया ।अनयदासनरज्जुपरिग्रहेभुजलताजलतामवलाजनः
”)स्वीकारः (यथा, रघुः १८ ३८ ।“लोकेन भावी पितुरेव तुल्यःसम्भावितो मौलिपरिग्रहात् सः
”)मूलम् कन्दः शापः शपथः इत्यमरभरतौ
राहुवक्त्रस्थभास्करः इत्यजयः
(पुत्त्रदारादि-भर्त्तव्यपरिमाणम् यथा, मनुः १० १२४ ।“प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद् यथार्हतः ।शक्तिञ्चावेक्ष्य दाक्ष्यञ्च भूतानाञ्च परिग्रहम्
”परिगृह्यतेऽनेनेति विग्रहे हस्तः
विष्णुः यथा, महाभारते १३ १४९ ५८ ।“ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः
”“शरणार्थिभिः परितो गृह्यते सर्व्वगतत्वात्परितो ज्ञायत इति वा पुष्पादिभिर्भक्तैरर्च्चितंपरिगृह्णाति इति वा परिग्रहः
इति शाङ्कर-भाष्यम्
साधनम् यथा, रघुः २१ ।“अजिनदण्डभृतं कुशमेखलांयतगिरं मृगशृङ्गपरिग्रहाम्
”“मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम्
”इति तट्टीकायां मल्लिनाथः
)
कृदन्तरूपमाला
Sanskrit
1 {@“ग्रह उपादाने”@} 2 ग्रह्यादिः।
उपादानम् = स्वीकारः।
‘ण्यन्तस्य ग्रहणे गृहेर्गृहयते, तत्रानदन्ताद् गृहेः भूवादेः शपि गर्हते, श्नि तु पदे गृह्णात्यगृह्णीत च।
3 गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत् तथा, गर्हयेद् भूवादेः शपि कुत्सनार्थविषये गर्हेर्भवेद् गर्हते।।’ 4 इति देवः।
ग्राहकः-हिका, ग्राहकः-हिका, 5 जिघृक्षकः-क्षिका, 6 जरीगृहकः-हिका
7 ग्रहीता-त्री, ग्राहयिता-त्री, जिघृक्षिता-त्री, 8 जरीगृहिता-त्री
9 गृह्णन्-ती, विगृह्णन्, ग्राहयन्-न्ती, जिघृक्षन्-न्ती
-- ग्रहीष्यन्-न्ती-ती, ग्राहयिष्यन्-न्ती-ती, जिघृक्षिष्यन्-न्ती-ती
-- गृह्णानः, ग्राहयमाणः, जिघृक्षमाणः, जरीगृह्यमाणः
ग्रहीष्यमाणः, ग्राहयिष्यमाणः, जिघृक्षिष्यमाणः, जरीगृहिष्यमाणः
10 विघृट्-विघृड्-विगृहौ-विगृहः
-- -- 11 गृहीतम्-तः, 12 पाणिगृहीती-पाणिगृहीता, ग्राहितः, जिघृक्षितः, जरीगृहितः-तवान्
13 14 ग्राही, 15 गुणग्राही, 16 ग्राहः- 17 ग्रहः, 18 गृहम्-गृहाः, 19 शक्तिग्रहः, लाङ्गलग्रहः, अङ्कुशग्रहः, यष्टिग्रहः, तोमरग्रहः, घटग्रहः, घटी ग्रहः घनुर्ग्रहः, 20 सूत्रग्रहः, 21 फलेग्रहिः 22, ग्राहः, 23 जिघृक्षुः, 24 विजिग्राहयिषुः, जरीगृहः
ग्रहीतव्यम्, ग्राहयितव्यम्, जिघृक्षितव्यम्, जरीगृहितव्यम्
ग्रहणीयम्, ग्राहणीयम्, जिघृक्षणीयम्, जरीगृहणीयम्
ग्राह्यम्, 25 प्रतिगृह्यम्-अपिगृह्यम्, 26 प्रगृह्यम् 27 28, गृह्यकाः 29 30, अगृह्या, ग्रामगृह्या नगरगृह्या, 31, ग्रामग्राह्यः, वासुदेवगृह्या, अर्जुनगृह्या-देवगृह्या, 32, ग्राह्यम्, जिघृक्ष्यम्, जरीगृह्यम्
ईषद्-ग्रहः-दुर्ग्रहः-सुग्रहः
-- -- गृह्यमाणः, ग्राह्यमाणः, जिघृक्ष्यमाणः, जरीगृह्यमाणः
33 ग्रहः, 34 उद्ग्राहः 35, 36 सङ्ग्राहः 37, सङ्ग्रहः, 38 अवग्राहः-निग्राहः, अवग्रहः 39, निग्रहः 40, 41 प्रग्राहः, 42 परिग्राहः, परिग्रहः 43, 44 अवग्राहः-अवग्रहः, 45 46 तुलाप्रग्राहः- 47 तुलाप्रग्रहः, 48 49 प्रग्राहः-प्रग्रहो वा, 50 51 ग्लहः, 52 ग्राहः, जिघृक्षः, जरीगृहः
53 ग्रहीतुम्, ग्राहयितुम्, जिघृक्षितुम्, जरीगृहितुम्
54 निगृहीतिः, ग्राहणा, जिघृक्षा, जरीगृहा
ग्रहणम्, ग्राहणम्, जिघृक्षणम्, जरीगृहणम्
55 गृहीत्वा, ग्राहयित्वा, जिघृक्षित्वा, जरीगृहित्वा
विगृह्य, विग्राह्य, विजिघृक्ष्य, विजरीगृह्य
56 जीवग्राहं, 57 58, 59 नामग्राहं, 60 61
62 हस्तग्राहं, 63, 64 यष्टिग्राहं 65, 66 केशग्राहं युध्यन्ति
ग्राहम् २, गृहीत्वा २, ग्राहम् २, जिघृक्षम् २, जरीगृहम्
ग्राहयित्वा २, जिघृक्षित्वा २, जरीग्र्हित्वा २। 67
प्रासङ्गिक्यः
01
=>
(४४१)
02
=>
(९-क्र्यादिः-१५३३। सक। सेट्। उभ।)
03
=>
[पृष्ठम्०४३६+ २५]
04
=>
(श्लो। १९४)
05
=>
[[१। ‘सन्यङोः’ (६-१-९) इति द्वित्वे, अभ्यासकार्ये, ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्णिषेधः। ‘रुदविदमुषग्रहिस्वपिप्रच्छः संश्च’ (१-२-८) इति कित्त्वे ‘ग्रहि- ज्या--’ (६-१-१६) इति सम्प्रसारणे, उत्तरखण्डे हकारस्य ढत्वे, भष्भावे कृते, ‘षढोः कः सि’ (८-२-४१) इति कत्वे षत्वे रूपम्। एवं सन्नन्ते सर्वत्र प्रक्रिया बोध्या।]]
06
=>
[[२। यङ्निमित्तके सम्प्रसारणे द्वित्वे, अभ्यासस्य ‘रीगृत्वत इति वक्तव्यम्’ (वा। ७-४-९०) इति रीगागमे यलोपाल्लोपयोः रूपम्। एवं यङन्ते सर्वत्रापि ज्ञेयम्।]]
07
=>
[[३। ‘ग्रहोऽलिटि दीर्घः’ (७-२-३७) इतीटो दीर्घः। एवं इडागमे सर्वत्र दीर्घो बोध्यः।]]
08
=>
[[४। ‘ग्रहोऽलिटि दीर्घः’ (७-२-३७) इति दीर्घः नात्र प्रवर्तते। अल्लोपस्य स्थानिवद्भा- वात्। एवं सर्वत्र यङन्तस्थले बोध्यम्।]]
09
=>
[[५। ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्नाप्रत्यये, ‘सार्वधातुकमपित्’ (१-२-४) इत्यनेन श्नाप्रत्ययस्य ङिद्वद्भावात् ‘ग्रहिज्यावयि--’ (६-१-१६) इत्यादिना सम्प्र- सारणे, ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे, ‘ऋवर्णान्नस्य--’ (वा। ८-४-१) इति णत्वे रूपम्। एवं शानजन्तेऽपि ज्ञेयम्।]]
10
=>
[[६। क्विपि, ‘ग्रहिज्या--’ (६-१-१६) इत्यादिना सम्प्रसारणे पूर्वरूपे च, हस्य ढत्वे भष्भावे, चर्त्वविकल्पे रूपम्।]]
11
=>
[[७। सम्प्रसारणे पूर्वरूपे, इटो दीर्घे चं रूपम्।]]
12
=>
[[८। ‘पाणिगृहीती भार्यायाम्’ (वा। ४-१-५२) इति ङीषन्तो निपात्यते। भार्याया अन्यत्र पाणिगृहीता।]]
13
=>
[पृष्ठम्०४३७+ ३४]
14
=>
[[१। ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ (३-१-१३४) इत्यनेन ग्रह्यादित्वात् णिनिः।]]
15
=>
[[२। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
16
=>
[[३। ‘विभाषा ग्रहः’ (३-१-१४३) इति कर्तरि णो वा। पक्षे पचाद्यच् (३-१-१३४)। अत्र व्यवस्थितविभाषाश्रयणात् जलचरे जन्तौ ग्राहः इत्येव। ज्योतिषि बाच्ये ग्रहः इति बोध्यम्। ‘देवत्रातो गलो ग्राह इतियोगे सद्विधिः। मिथस्ते विभाष्यन्ते गवाक्षः संशितव्रतः।।’ (भाष्यम्-७-४-४१) इति व्यवस्थितविभाषा।]]
17
=>
[[आ। ‘समाविष्टं ग्रहेणेव ग्राहेणेवोत्तमार्णवे। दृष्ट्वा गृहान् स्मरस्येव वनान्तान्मम मानसम्।।’ भ। का। ६-८३।]]
18
=>
[[४। ‘गेहे कः’ (३-१-१४४) इति कर्तरि कः। कित्त्वात् सम्प्रसारणम्। गृहाः = गृहिणी। तात्स्थ्यात् ताच्छब्द्यम्।’ गृहाः पुंसि भूम्न्येव--’ इत्यमरः।]]
19
=>
[[५। ‘शक्तिलाङ्गलाङ्कुशयष्टितोमरघटधटीधनुःषु ग्रहेरुपसंख्यानम्’ (वा। ३-२-९) इति कर्मण्युपपदेऽच् प्रत्ययः। कर्मण्यणोऽपवादः।]]
20
=>
[[६। ‘सूत्रे धार्येऽर्थे’ (वा। ३-२-९) इति अच्। कर्मण्यणोऽपवादः।]]
21
=>
[[७। ‘फलेग्रहिरात्मम्भरिश्च’ (३-२-२६) इति इन्प्रत्ययान्तो निपात्यते। उपपदस्य एदन्तत्वं निपातनाद्भवति। फलानि गृह्णातीति फलेग्रहिः ‘रजोग्रहिः मलग्राहिरिति केचित्।’ इति प्रक्रियाकौमुदी।]]
22
=>
[[B। ‘आत्मम्भरिस्त्वं पिशितैर्नराणां फलेग्रहीन् हंसि वनस्पतीनाम्। शौवस्तिकत्वं विभवा येषां व्रजन्ति तेषां दयसे कस्मात्।।’ भ। का। २-३३।]]
23
=>
[[C। ‘विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः। उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः।।’ भ। का। ७-९८।]]
24
=>
[[ड्। ‘खरदूषणयोर्भ्रात्रोः पर्यदेविष्ट सा पुरः। विजिग्राहयिषू रामं दण्डकारण्यवासिनोः।।’ भ। का। ४-३४।]]
25
=>
[[८। ‘प्रत्यपिभ्यां ग्रहेः’ (३-१-११८) इति क्यपू। ‘छन्दसीति वक्तव्यम्’ (वा। ३-१-११८) इति वचनात् छन्दसि विषये प्रतिगृह्यम्-अपिगृह्यम् इति रूपे ज्ञेये। ‘भाषायां वा’ इति केचित् -- इति प्रक्रियाकौमुदी।]]
26
=>
[[९। ‘पदास्वैरिबाह्यापक्ष्येषु च’ (३-१-११९) इति क्यपू। ‘बाह्या’ इति स्त्रीलिङ्ग- निर्देशात् लिङ्गान्तरे मा भूदिति, तेन ‘ग्रामग्राह्यश्चण्डालः’ इत्यत्र ण्यदेव भवतीति मा। धा। वृत्तिः।]]
27
=>
[[E। ‘प्रगृह्यपदवत् साध्वीं स्पष्टरूपामविक्रियाम्। अगृह्यां वीतकामत्वात् देवगृह्यामनिन्दिताम्।।’ भ। का। ६-६१।]]
28
=>
[पदम्]
29
=>
[पृष्ठम्०४३८+ ३०]
30
=>
(परतन्त्राः शुकाः)
31
=>
[ग्रामात् नगराद्वा बाह्या सेना]
32
=>
[तत्पक्षाश्रिता]
33
=>
[[१। ‘ग्रहवृदृनिश्चिगमश्च’ (३-३-५८) इत्यप्। घञ्पवादः।]]
34
=>
[[२। ‘उदि ग्रहः’ (३-३-३५) इति घञ्। अबपवादः।]]
35
=>
[मल्लस्य]
36
=>
[[३। ‘समि मुष्टौ’ (३-३-३६) इति घञ्। अबपवादः। अन्यत्र ‘द्रव्यस्य सङ्ग्रहः’ इत्येव।]]
37
=>
[द्रव्यस्य]
38
=>
[[४। ‘आक्रोशेऽवन्योर्ग्रहः’ (३-३-४५) इति घञ्। आक्रोशादन्यत्र, ‘अवग्रहः पदस्य, निग्रहः चोरस्य’ इत्यत्र अबेव।]]
39
=>
[पदस्य]
40
=>
[चोरस्य]
41
=>
[[५। ‘प्रे लिप्सायाम्’ (३-३-४६) इति घञ्। ‘पात्रप्रग्राहेण चरति भिक्षुः’ इत्यत्र लिप्सा गम्यते।]]
42
=>
[[६। ‘परौ यज्ञे’ (३-३-४७) इति घञ्। ‘उत्तरं परिग्राहं परिगृह्णाति’ इति श्रुतिः। यज्ञविषयादन्यत्र परिग्रहः इत्येव। ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः।’ इति अमरः।]]
43
=>
[धान्यस्य]
44
=>
[[७। ‘अवे ग्रहो वर्षप्रतिबन्धे’ (३-३-५१) इति वा घञ्। पक्षेऽप्।]]
45
=>
[[आ। ‘रावणावग्रहक्लान्तम् इति वागमृतेन सः। अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे।।’ रघुवंशे १०-४८।]]
46
=>
[[८। ‘प्रे वणिजाम्’ (३-३-५२) इति वा घञ्। तुलाप्रग्राहेण चरति वणिक्।]]
47
=>
[[B। ‘वणिक् प्रग्राहवान् यद्वत् काले चरति सिद्धये। देशापेक्षास्तथा यूयं यातादायाङ्गुलीयकम्।।’ भ। का। ७-४९।]]
48
=>
[अश्वस्य]
49
=>
[[९। ‘रश्मौ च’ (३-३-५३) इति वा घञ्। ‘प्रग्राहः = खलीसूत्रम्।’ इति प्रक्रियाकौमुदीव्याख्यायाम्।]]
50
=>
[अक्षः]
51
=>
[[१०। ‘अक्षेषु ग्लहः’ (३-३-७०) इत्यनेन ग्रहेः अप्प्रत्ययसन्नियोगेन रेफस्य लत्वं निपात्यते। यत् पणरूपेण ग्राह्यं तत् ग्लहः इति बोध्यम्।]]
52
=>
[[C। ‘मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः। ताः कान्तैः सह करपुष्करेरिताम्बु व्यात्युक्षीमभिसरणग्लहामदीव्यन्।।’ शिशुपालवधे ८-३२।]]
53
=>
[पृष्ठम्०४३९+ २२]
54
=>
[[१। ‘तितुत्रेष्वग्रहादीनामिति वक्तव्यम्’ (वा। ७-२-९) इति वचनात् इण्णिषेधो न। दीर्घः, सम्प्रसारणम्।]]
55
=>
[[२। ‘रुदविदमुषग्रहिस्वपिप्रच्छः संश्च’ (१-२-८) इति कित्त्वम्। ‘न क्त्वा सेट्’ (१-२-१८) इत्यस्यापवादः। सम्प्रसारणादिकं ज्ञेयम्।]]
56
=>
[[३। ‘समूलाकृतजीवेषु हङ्कृञ्ग्रहः’ (३-४-३६) इति णमुल्। ‘कषादिषु यथा- विधि--’ (३-४-४६) इत्यनुप्रयोगः। जीवन्तं गृह्णातीत्यर्थः।]]
57
=>
[[आ। ‘भिन्नानस्त्रैर्मोहभाजोऽभिजातान् हन्तुं लोलं वारयन्तः स्ववर्गम्। जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थः कस्य स्याज्जनेन।।’ शिशुपालवधै १८-६६।]]
58
=>
[गृह्णाति]
59
=>
[[४। ‘नाम्न्यादिशिग्रहोः’ (३-४-५८) इति द्वितीयान्ते उपपदे णमुल्।]]
60
=>
[[B। ‘सम्प्राप्य राक्षससभं चक्रन्द क्रोधविह्वला। नामग्राहमरोदीत् सा भ्रातरौ रावणान्तिके।।’ भ। का। ५-५।]]
61
=>
[आह्वयति]
62
=>
[[५। ‘हस्ते वर्तिग्रहोः’ (३-४-३९) इति करणे उपपदे णमुल्। हस्तेन गृह्णातीत्यर्थः। हस्तशब्दः अर्थग्रहणार्थः। तेन करग्राहं गृह्णातीत्यपि उदाहार्यम्। कषादित्वात् (३-४-४६) पूर्ववत् यथाविध्यनुप्रयोगः।]]
63
=>
[गृह्णाति]
64
=>
[[६। ‘द्वितीयायां च’ (३-४-५३) इति परीप्सायां गम्यमानायां णमुल्। एवं नाम त्वरन्ते, यदायुधग्रहणमपि नाद्रियन्ते, यष्ट्यादिकं यत्किञ्चिदासन्नं तद्गृहीत्वा युष्यन्तीत्यर्थः।]]
65
=>
[युध्यन्ति]
66
=>
[[७। ‘समासत्तौ’ (३-४-५०) इति सप्तम्यां तृतीयायां चोपपदे समासत्तौ गम्यमानायां णमुल्।]]
67
=>
[पृष्ठम्०४४०+ २५]