| YouTube Channel

परिकर्म्म (parikarmma)

 
शब्दकल्पद्रुमः
Sanskrit
परिकर्म्म, [न्]
क्ली,
(परिक्रियते इति परि +कृ + मनिन् ।) कुङ्कुमादिना शरीरशोभाधान-रूपसंस्कारः इति भरतः
स्नानोद्वर्त्तनादि ।इति स्वामी
शरीरसंस्कारमात्रम् इत्यन्ये
तत्पर्य्यायः अङ्गसंस्कारः इत्यमरः ।६ १२१
प्रतिकर्म्म इति शब्दरत्नावली
(यथा कुमारे १९ ।“विबुधैरसि यस्य दारुणैःअसमाप्ते परिकर्म्मणि स्मृतः ।तमिमं कुरु दक्षिणेतरंचरणं निर्म्मितरागमेहि मे
”)