| YouTube Channel

परार्द्ध्यः (parArddhyaH)

 
शब्दकल्पद्रुमः
Sanskrit
परार्द्ध्यः, त्रि, (परार्द्धं परार्द्धसंख्यावत् प्रधानत्व-मर्हतीति परार्द्ध + यत् यद्वा परस्मिन्नर्द्धे भवः ।“परावराधमोत्तमपूर्व्वांच्च ।” इतियत् ।) प्रधानः श्रेष्ठः इत्यमरः ५८ ।(यथा, रघुः १० ६४ ।“ताभ्यस्तथाविधान् स्वप्नान् श्रुत्वा प्रीतो हिपार्थिवः ।मेने परार्द्ध्यमात्मानं गुरुत्वेन जगद्गुरोः
”)