| YouTube Channel

परार्द्धं (parArddhaM)

 
शब्दकल्पद्रुमः
Sanskrit
परार्द्धं
क्ली,
(परार्द्ध्यति सर्व्वोत्कृष्टतया वर्द्ध्वते इति ।ऋध्यैर वृद्धौ + अच् ।) दशमध्यसंख्या लक्ष-लक्षकोटिः १००, ०००, ०००, ०००, ०००, ०००इदं चरमसंख्या अष्टादशाङ्कपर्य्यन्तम् इतिहेमचन्द्रः ज्योतिषश्च
(यथा, नैषधे ४० ।“यदि त्रिलोकीगणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् ।पारे परार्द्धं गणितं यदि स्यात्गणेयनिःशेषगुणोऽपि स्यात्
”)ब्रह्मण आयुषोऽर्द्धम् यथा, --“निजेन तस्य मानेन चायुर्व्वर्षशतं स्मृतम् ।तत् पराख्यं तदर्द्धञ्च परार्द्धमभिधीयते
”इति कौर्म्मे अध्यायः
(तथा, मार्कण्डेये ४६ ४२ -- ४३ ।“शतं हि तस्य (ब्रह्मणः) वर्षाणां परमित्यभि-धीयते ।पञ्चाशद्भिस्तथावर्षैः परार्द्धमिति कीर्त्त्यते
एवमस्य परार्द्धन्तु व्यतीतं द्बिजसत्तम् ! ।यस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः
”)