| YouTube Channel

परार्द्ध (parArddha)

 
शब्दसागरः
English
परार्द्ध
n.
(-र्द्धं)
1. A great number, a lack of lacks of crores, or a number
equal to half the term of BRAMHĀ'S life, or as many mortal days
as are equal to fifty of his years.
2. The other part, the latter
half.
E.
पर, and अर्द्ध half.
Yates
English
परा_र्द्ध (र्द्धं) 1.
n.
Half the term of
Brahma's life
a great number.
Wilson
English
परार्द्ध
n.
(-र्द्धं)
1 A great number, a lack of lacks of crores, or a number equal to half the
term of BRAHMA'S life, or as many mortal days as are equal to fifty of his
years.
E.
पर, and अर्द्ध half.
अभिधानचिन्तामणिः
Sanskrit
--source--
यथोत्तरं दशगुणं भवेदेको दशामुतः
शतं सहस्रमयुतं लक्षप्रयुतकोटयः ८७३
अर्बुदमब्जं खर्वं निखर्वं महाम्बुजम्
शङ्कुर्वार्धिरन्त्यं मध्यं परार्धं चेति नामतः ८७४
-wordlist-
एक (पुं), दशन् (पुं), शत (पुंक्ली), सहस्र (पुंक्ली), अयुत (पुंक्ली), लक्ष (स्त्रीक्ली), प्रयुत (पुंक्ली), कोटि (स्त्री), अर्बुद (पुंक्ली), अब्ज (क्ली), खर्व (क्ली), निखर्व (क्ली), महाम्बुज (क्ली), शङ्कु (पुंस्त्री), वार्द्धि (पुं), अन्त्य (क्ली), मध्य (क्ली), परार्द्ध (क्ली)
शब्दकल्पद्रुमः
Sanskrit
परार्द्धं
क्ली,
(परार्द्ध्यति सर्व्वोत्कृष्टतया वर्द्ध्वते इति ।ऋध्यैर वृद्धौ + अच् ।) दशमध्यसंख्या लक्ष-लक्षकोटिः १००, ०००, ०००, ०००, ०००, ०००इदं चरमसंख्या अष्टादशाङ्कपर्य्यन्तम् इतिहेमचन्द्रः ज्योतिषश्च
(यथा, नैषधे ४० ।“यदि त्रिलोकीगणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् ।पारे परार्द्धं गणितं यदि स्यात्गणेयनिःशेषगुणोऽपि स्यात्
”)ब्रह्मण आयुषोऽर्द्धम् यथा, --“निजेन तस्य मानेन चायुर्व्वर्षशतं स्मृतम् ।तत् पराख्यं तदर्द्धञ्च परार्द्धमभिधीयते
”इति कौर्म्मे अध्यायः
(तथा, मार्कण्डेये ४६ ४२ -- ४३ ।“शतं हि तस्य (ब्रह्मणः) वर्षाणां परमित्यभि-धीयते ।पञ्चाशद्भिस्तथावर्षैः परार्द्धमिति कीर्त्त्यते
एवमस्य परार्द्धन्तु व्यतीतं द्बिजसत्तम् ! ।यस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः
”)
वाचस्पत्यम्
Sanskrit
परार्द्ध
न०
ऋध--अच कर्म० चरमसंख्यायां “पारे परार्द्धंगणितं यदि स्यात्” नैषधम् “जलधिश्चान्त्यं मध्यंपरार्द्धमिति दशगुणोत्तराः संख्याः” लीला० तस्य सर्व-शेषतया उक्तेस्तथात्वम् परस्य ब्रह्मणः आयुषोर्द्धंविग्रहे ब्राह्मण आयुषो द्वितीयार्द्धे