| YouTube Channel

परापरगुरुः (parAparaguruH)

 
शब्दकल्पद्रुमः
Sanskrit
परापरगुरुः,
पुं,
(परमादपि परः श्रेष्ठः परापरः ।पृषोदरादित्वात् साधुः ततः कर्म्मधारयः ।) गुरु-विशेषः तु भगवती (यथा, --“आदौ सर्व्वत्र देवेशि ! मन्त्रदः परमो गुरुः ।परापरगुरुस्त्वं हि परमेष्ठी त्वहं गुरुः
”इति बृहन्नीलतन्त्रे पटलः
(तन्त्रान्तरे यथा, --“मन्त्रदाता गुरुः प्रोक्तो मन्त्रस्तु परमो गुरुः ।परापरगुरुस्त्वं हि परमेष्ठिगुरुस्त्वहम्
”)