| YouTube Channel

पराकः (parAkaH)

 
शब्दकल्पद्रुमः
Sanskrit
पराकः,
पुं,
(परं अत्यन्तं अकं दुःखं उपवासादि-जन्यशारीरिकादिक्लेशो यत्र यस्माद्वा ।) व्रत-विशेषः खड्गः इति मेदिनी
क्षुद्रः ।रोगविशेषः जन्तुविशेषः इति विश्वः
*
पराकव्रतमाह मनुः ११ २१५ ।“यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ।पराको नाम कृच्छ्रोऽयं सर्व्वपापापनोदनः
”पराके पञ्च धेनवः पराकस्य प्राजापत्यपञ्चक-तुल्यत्वात् यथा अङ्गिराः ।“षड्भिर्व्वर्षैः कृच्छ्रचारी ब्रह्महा तु विशुध्यति ।मासि मासि पराकेण त्रिभिर्व्वर्षैर्व्यपोहति
”अत्र षड्भिर्व्वर्षैः साशीतिशतप्राजापत्यानिपूर्व्वमुक्तानि तथा प्रतिमास्येकैकपराकेण वर्षेद्बादश पराकाः वर्षत्रये षट्त्रिंशत् पराकाः ।ततश्च षट्त्रिंशत् पराकाशीत्युत्तरप्राजापत्य-शतयोः प्रत्येकं ब्रह्मवधपापक्षयैककार्य्यकरत्वात्तुत्यत्वं षट्त्रिंशतश्च पञ्चगुणमशीत्युत्तरशतंभवतीति अतः प्राजापत्यपञ्चकतुल्यः पराकः ।इति प्रायश्चित्ततत्त्वम्
*
“द्वादशाहोपवासेन पराकः सर्व्वपापहा
”इति गरुडपुराणे प्रायश्चित्तप्रकरणम्