| YouTube Channel

परशुरामः (parazurAmaH)

 
Apte Hindi
Hindi
परशुरामः
पुं*
परशुः-रामः -
‘कुठारधारी राम’ एक विख्यात ब्राह्मणयोद्धा जो जमदग्नि का पुत्र और विष्णु का छठा अवतार था
Wordnet
Sanskrit
Synonyms:
परशुरामः, भार्गवः, जामदग्न्यः, भृगुपतिः, भृगूलापतिः
noun
जमदग्निऋषेः पतिः यः षष्ठः अवतारः अस्ति इति मन्यते।
"परशुरामेण एकविंशतिवारं क्षत्रियाणां नाशः कृतः।"
शब्दकल्पद्रुमः
Sanskrit
परशुरामः,
पुं,
(परशुना कुठाराख्यशस्त्रेणरामः रमणं यस्य परशुशस्त्रबलेनैव दुष्ट-क्षत्त्रियवंश्यान् निहत्यात्मानं रमयति इति तात्पर्य्यार्थः ।) भगवतः षोडशावतारः यथा, --“अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।त्रिःसप्तकृत्वः कुपितो निःक्षत्त्रामकरोन्महीम्
”इति श्रीभागवते स्कन्घे अध्यायः
तत्पर्य्यायः जामदग्न्यः पर्शुरामः परशु-रामकः भार्गवः भृगुपतिः भृगूला-पतिः इति शब्दरत्नावली
अस्योत्-पत्त्यादिकं यथा, --मार्कण्डेय उवाच ।“अथ काले व्यतीते तु जमदग्निर्महातपाः ।विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम्
भार्य्यार्थे प्रतिजग्राह रेणुकां लक्षणान्विताम् ।सा तस्मात् सुषुवे पुत्त्रान् चतुरो वेदसम्मतान्
रुमण्वन्तं सुषेणञ्च विश्वं विश्वावसुन्तथा ।पश्चात्तस्यां स्वयं जज्ञे भगवान् मधुसूदनः
कार्त्तबीर्य्यवधायाशु शक्राद्यैः सकलैः सुरैः ।याचितः पञ्चमः सोऽभूत्तेषां रामाह्वयस्तु यः
भारावतारणार्थाय जातः परशुना सह ।सहजः परशुस्तस्य तं जहाति कदाच
अयं निजपितामह्याश्चरुभुक्तिविपर्य्ययात् ।ब्राह्मणः क्षत्त्रियाचारो रामोऽभूत् क्रूरकर्म्मकृत् ।स वेदानखिलान् ज्ञात्वा धनुर्व्वेदांश्च सर्व्वशः ।स्वतातात् कृतकृत्योऽभूद्वेदविद्याविशारदः
”इति कालिकापुराणे ८५ अध्यायः
अवशिष्टं पाद्मोत्तरखण्डे ५० अध्याये द्रष्टव्यम्
(अयमेव पितुरादेशात् परशुना स्वमातुः शिर-श्चिच्छेद ततः प्रसन्नात् पितुर्वरं लब्ध्वा मातरंपुनर्जीवयामास यदुक्तं महाभारते ।११६ -- १८ ।“फलाहारेषु सर्व्वेषु गतेष्वथ सुतेषु वै ।रेणुका स्नातुमगमत् कदाचिन्नियतव्रता
सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् ।ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया
क्रीडन्तं सलिले दृष्ट्वा सभार्य्यं पद्ममालिनम् ।ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका
व्यभिचाराच्च सा तस्मात् क्लिन्नाम्भसि विचेतना ।प्रविवेशाश्रमं त्रस्ता तां वै भर्त्ता त्वबुध्यत
(जमदग्निः) तां दृष्ट्वा च्युतां धैर्य्यात् ब्राह्म्यालक्ष्म्या विवर्ज्जिताम् ।धिक्शब्देन महातेजा गर्हयामास वीर्य्यवान्
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः ।आजगाम सुषेणश्च वसुर्व्विश्वावसुस्तथा
तानानुपूर्व्व्या भगवान् वधे मातुरचोदयत् ।न ते जातसम्मोहाः किञ्चिदूचुर्व्विचेतसः
ततः शशाप तान् क्रोधात्ते शप्ताश्चेतनां जहुः ।मृगपक्षिसधर्म्माणः क्षिप्रमासन् जडोपमाः
ततो रामोऽभ्यात् पश्चादाश्रमं परवीरहा ।तमुवाच महाबाहुं जमदग्निर्म्महातपाः
जहीमां मातरं पापां मा पुत्त्र ! व्यथां कृथाः ।तत आदाय परशुं रामो मातुः शिरोऽहरत्
ततस्तस्य महाराज ! जमदग्नेर्महात्मनः ।कोपोऽभ्यगच्छत् सहसा प्रसन्नश्चाब्रवीदिदम्
ममेदं वचनात्तात ! कृतं ते कर्म्म दुष्करम् ।वृणीष्व कामान् धर्म्मज्ञ ! यावतो वाञ्छसे हृदा
वव्रे मातुरुत्थानमस्मृतिञ्च वधस्य वै ।पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिन्तथा
अप्रतिद्वन्दतां युद्धे दीर्घमायुश्च भारत ! ।ददौ सर्व्वान् कामांस्तान् जमदग्निर्महा-तपाः
”अयं पुनर्बलदर्पितं आश्रमात् वत्स्यहारिणंकार्त्तवीर्य्यार्ज्जुनं हतवान् अनेन जातामर्षा-स्तस्यार्ज्जुनस्य सुतास्ततःप्रभृति कालं प्रतीक्ष-माणाः कदाचित् रामविरहितमाश्रममागत्यतस्य पितरं जमदग्निं निजघ्नुः रामस्तु अस्मात्पितृवधामर्षात् त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रिया-मकरोत् ततो गच्छति काले दाशरथिनारामेण हतगर्व्वो दक्षिनाशां गत्वा महेन्द्रे गिरौउग्रेण तपसा कालं यापयति
)