| YouTube Channel

परमेष्ठी (parameSThI)

 
Wordnet
Sanskrit
Synonyms:
ब्रह्मा, आत्मभूः, सुरज्येष्ठः, परमेष्ठी, पितामहः, हिरण्यगर्भः, लोकेशः, स्वयंभूः, चतुराननः, धाता, अब्जयोनिः, द्रुहिणः, ब्रह्मदेवः, विरिञ्चिः, कमलासनः, पङ्कजासनः, स्रष्टा, प्रजापतिः, वेधाः, विधाता, विश्चसृट्, विधिः, नाभिजन्मा, अण्डजः, पूर्वः, निधनः, कमलोद्भवः, सदानन्दः, रजोमूर्तिः, सत्यकः, हंसवाहनः, हरिः, पूर्णानन्दः
noun
देवताविशेषः यः सृष्टेः जनकः अस्ति।
"नारदः ब्रह्मणः पुत्रः अस्ति।"
पुराणम्
English
परमेष्ठी / PARAMEṢṬHĪ I. A king of candravaṁśa (Lunar race). He was the son of indradyumna and the father of pratīhāra. (Chapter I, aṁśa 1, viṣṇu purāṇa).
परमेष्ठी / PARAMEṢṬHĪ II. A Vaidikasūktadraṣṭā. He was a disciple of brahmā. (Bṛhadāraṇyaka upaniṣad). According to jaimini brāhmaṇa parameṣṭhī was the disciple of prajāpati.
परमेष्ठी / PARAMEṢṬHĪ III. A king of Pāñcāladeśa. He was born to ajamīḍha of nīlī. parameṣṭhī and the sons of duṣyanta, his brother, are known as Pāñcālas. (Ādi Parva, mahābhārata).
शब्दकल्पद्रुमः
Sanskrit
परमेष्ठी, [न्]
पुं,
(परमे व्योम्नि चिदाकाशे ब्रह्म-पदे वा तिष्ठतीति स्थागति निवृत्तौ “परमेकित् ।” उणां १० इति इनिः चकित् “हलदन्तात् सप्तम्याः संज्ञा-याम् ।” इत्यलुक् “स्थास्थिन्स्थणाम् इति षत्वम् परमे स्थानेऽनावृत्त-लक्षणे तिष्ठतीति कुल्लूकभट्टः
) ब्रह्मा ।इत्यमरः १६ (यथा, मनुः ८० ।“मन्वन्तराण्यसंख्यानि सर्गः संहार एव ।क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः
”विष्णुः यथा, महाभारते १३ १४९ ५८ ।“ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः
”महादेवः यथा, महाभारते ३७ ५८ ।“क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः
”)दर्शनात्तस्य कौन्तेय ! संसिद्धः सर्व्वमेष्यसि
”)जिनः इति हेमचन्द्रः
शालग्रामविशेषः ।यथा, --“परमेष्ठी शुक्लाभः पद्मचक्रसमन्वितः ।चित्राकृतिस्तथा पृष्ठे शुषिरञ्चातिपुष्कलम्
परमेष्ठी लोहिताभश्चक्रमेकं तथा युतम् ।विम्बाकृतिस्तथा रेखा शुषिरञ्चातिपुष्कलम्
”इति ब्रह्मपुराणम्
“परमेष्ठी शुक्लाभश्चक्रपद्मसमन्वितः ।स वर्त्तुलस्तथा पीतः पृष्ठे शुषिरं ध्रुवम्
”इति पुराणसंग्रहः
“परमेष्ठी तु रक्ताभश्चक्रपद्मसमन्वितः ।द्विधाकृतस्तथा पृष्ठे शुषिरञ्चापि वर्त्तुलम्
पीतवर्णयुतो वापि भुक्तिमुक्तिवरप्रदः
”इति वैश्वानरसंहिता
*
गुरुविशेषः यथा, --“आदौ सर्व्वत्र देवेशि ! मन्त्रदः परमो गुरुः ।परापरगुरुस्त्वं हि परमेष्ठी त्वहं गुरुः
”इति बृहन्नीलतन्त्रे पटलः
मन्त्रदाता गुरुः प्रोक्तो मन्त्रस्तु परमो गुरुः ।परापरगुरुस्त्वं हि परमेष्ठिगुरुस्त्वहम्
”इति तन्त्रान्तरम्
(अजमीडपुत्त्रः यथा, महाभारते ९४ ३१ ।“अजमीडो वरस्तेषां तत्मिन् वंशः प्रतिष्ठितः ।षट् पुत्त्रान् सोऽप्यजनयत् तिसृषु स्त्रीषु भारत ! ।ऋक्षं धूमिन्यथोनिली दुष्मन्तपरमेष्ठिनौ
”परमस्थानस्थिते वाच्यलिङ्गः यथा, मार्क-ण्डेये ७६ ।“अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज !
”)