| YouTube Channel

परमायुः (paramAyuH)

 
शब्दकल्पद्रुमः
Sanskrit
परमायुः, [स्]
क्ली,
(परमं आयुः ।) जीवित-कालः यथा, --“शतं वर्षाणि विंशत्या निशाभिः पञ्चभिः सह ।परमायुरिदं प्रोक्तं नराणां करिणामिह
अब्दा द्बात्रिंशदश्वानां शुनां द्वादशवत्सराः ।पञ्चविंशतिवर्षाणि खरस्य करभस्य
चतुर्व्विंशतिरब्दानां वृषस्य महिषस्य ।मृगशूकरवस्तादिपशूनां षड्दशान्विताः
”इति शब्दमाला
*
अथायुरानयनम् ।“अज्ञानादायुषः सर्व्वं विफलं कीर्त्तितञ्च यत् ।तस्मादानयनं तस्य स्फुटार्थमभिधीयते
नीचान्तरस्य खेटस्य भागस्तुङ्गगुणो भवेत् ।चेष्टा केन्द्रस्तु चेत् षड्भादधिकं चक्रशोधितम्
नान्यथा तस्य भागादि चेष्टा गुणक उच्यते ।गुणश्चेत् षष्टि ६० तो न्यूनं तदा द्ब्याप्तं सखा-नलः ३०
एवं तुङ्गगुणश्चेष्टा गुणो यत् स्यात् तयोर्वधात् ।मूलं कलादिकं तत् स्याद्गुणकस्फुट उच्यते
अथाश्रयगुणं वक्ष्ये क्षेत्रादिसप्तवर्गजम् ।वर्गे क्षेत्रादिके स्वर्क्षे ग्राह्यस्त्रिंशत् ३० कलागुणः
अधिमित्रगृहे तत्त्वम् २५ मित्रेवित्र्यंशजातयः ।२१ ४० ।समे पञ्चदश ग्राह्याः शत्रौ स्वत्र्यंशकोरगाः २०पञ्चात्यरौ तदैक्यं यत् क्षेत्रोत्थगुणयुक् पुनः ।स्वर्क्षे वर्गोत्तमे स्वांशे स्वत्र्यं शे स्यादयं गुणः
अधीष्टर्क्षे युगांशोनस्त्र्यंशोनो मित्रवेश्मनि ।समे द्व्याप्तो रिपौ त्र्याप्तो युगांशस्त्वतिशत्रुभे
एवं स्यादाश्रयगुणो विशेषो यः उच्यते ।स्वत्र्यंशकः स्वांशको वा वर्गोत्तमगतोऽपि वा
यदि स्यादधिमित्रर्क्षे तदा तत्राश्रये गुणे ।गजनेत्रे समुद्राक्षी २८ ३४ कलाद्यं मिश्रयेद्बुधः ।एवं मित्रगृहे तद्वद्भूपस्त्रिंशद्बिमिश्रयेत् १६ ३० ।शत्रुक्षेत्रे तु षड्लिप्तां कुनेत्रविकलां त्यजेत्
२१अधिशत्रुगृहे वाणस्त्र्यब्धी ४३ लिप्तादिकंत्यजेत् ।आश्रयस्य गुणस्यास्य बधः स्फुटगुणस्य यः
तन्मूलं कर्म्मयोग्यः स्याद्गुण आयुर्व्विधौ स्मृतः ।खेटानाञ्च तनोर्भागाः खाब्धि ४० शिष्टाः कली-कृताः
पुनः शून्यरसा ६० भ्यस्ताः क्रमात् स्यादायुषःपलम् ।जन्मलग्नं ग्रहेणोनं न्यूनं चक्रार्द्धतो यदि
तत्कला स्यात्तदाहारो नायं षड्भाधिके विधिः ।खखधृत्या १८०० खखाङ्केन ९०० गुणितं पल-मायुषः
क्रमतः पापसौम्यानां हाराप्तं शोधनं भवेत् ।खखधृत्यूनहारश्चेद्धारो हारदलं क्रमात्
आयुः पलघ्नं शून्याभ्रं धृत्याप्ता शोधनं तथा ।आयुःपलं शोधनोनमेवं चक्रार्द्धशोधनम्
चक्रार्द्धशोधने त्वेकराशौ द्ब्यादिग्रहे सति ।एकस्याधिकवीर्य्यस्य हानिं सत्यः प्रभासते
आयुःपलं हतं स्वीयैर्गुणैर्योग्यैः कलादिभिः ।षष्ट्याप्तम् ६० तत् पुनः सूर्य्यसहस्राप्ताः १२००समादयः ।तनोरायुः पलं सूर्य्यः सहस्राप्ताः समादयः ।चेल्लग्नं बलवद्योज्या राशितुल्याः समास्तथा
द्वादशाहतभागाद्यैर्दिनाद्यैश्चापि संयुताः ।एवं सूर्य्यादिलग्नानामंशायुः प्रस्फुटं भवेत्
सूच्चान्तरितखेटस्य कला आयुःपलं भवेत् ।तच्चेत् षड्भः कलान्यूनं तदा तांद्द्विगुणाच्च्युतम्
अथवा ।“सुनीचान्तरितः खेटः सवड्भः सकलीकृतः ।आयुःपलमिदं प्राज्ञैर्ज्ञेयं पैण्डादिकत्रये
त्र्यंशोनं शत्रुभस्थस्य विनारमायुषः पलम् ।अस्तगस्य द्विभागोनं हित्वा शुक्रशनैश्चरौ
एकस्य यदि खेटस्य त्र्यंशार्द्धहानिसम्भवः ।अधिकैका तदा हानिः कर्त्तव्यात्र विपश्चिता
चक्रार्द्धशोधनं कार्य्यं पूर्व्ववत् सति सम्भवे ।एवमायुःपलं पैण्डे जीवः प्रोक्ते निसर्गजे
पैण्डं यथागतं सौरेर्भानोर्व्विंशांशवर्ज्जितम् ।चन्द्रस्य वेदभागाढ्यं भृगो २० र्व्विंशांशसंयुतम्
कुजगुर्व्वो र्युगांशोनं ज्ञस्यार्द्धं तत् शरांशयुक् ।आयुःपलं निसर्गाख्ये रविकव्योर्यथागतम्
दशांशोनदलं ज्ञस्य जीवस्य विद्दशांशकम् ।दशांशं भूमिपुत्त्रस्य विंशत्यंशं निशापतेः
दशघ्नं श्रुतिभिर्भक्तं शनेरायुःपलं भवेत् ।जीवोक्तं सप्तभागोनं सर्व्वेषामायुषः पलम्
आयुः पलस्य खाभ्राष्टदिग्भागेन १०८०० समा-युतम् ।इत्थमायुःपलं खाष्टदशाप्तम् १०८० स्यात् समा-दिकम्
पैण्डनैसर्ग्यजीवोक्ते भवेदायुः खगामिनाम् ।”अथवा ।“रवेरायुःपलं त्र्याप्तं विनखांशं दिनादिकम् ।पैण्डमायुर्भवेदिन्दोर्व्वाणघ्नम् द्बादशो १२ द्धृतम् ।कुजगुर्व्वो र्युगे नाप्तं बुधस्य पञ्चभिर्हृतम् ।कवेः शैल हतं विंशत्याप्तं २० सौरेर्गुणोद्धृतम् ।विधोरायुःपलं लब्धं खरसैः स्याद्दिनादिकम्
निसर्गे शशिपुत्त्रस्य रामघ्नं खयमोद्धृतम् ।रविकव्योर्गुणेनाप्तं कुजस्य खगुणोद्धृतम्
गुरोस्त्रिघ्नं खचन्द्राप्तं १० शनेस्तर्कां शतो-लितम्
”अथवा ।“आयुःपलमिनादीनां खाब्धिषण्णाग ८६४०भागयुक् ।द्बिघ्नं सप्ताप्तमायुः स्याद्दिनाद्यं जीवभाषितम्
विराशिलग्नविकला खखखार्क १२००० हृतातनोः ।तदंशकसमं ज्ञेयमायुः पैण्डादिकत्रये
अंशतुल्यं तनोरायुर्व्वदन्ति बहवो बुधाः ।केचिद्राशिसमं केचित्तस्य यस्याधिपो बली
लग्नस्फुटस्य लिप्ताभिर्हन्यादायुर्द्युचारिणाम् ।प्रत्येकं चन्द्रलिप्ताभि २१६००० र्भजेद्बर्षाधिकंभवेत्
अनेन हीनस्वस्वायुर्लग्ने पापग्रहे सति ।दृष्टे तु सौम्यखेटेन तस्यार्द्धेन तदा वियुक्
व्याखानमुत्पलस्यैव बृहज्जातकभाषितम् ।केचित् प्राहुर्लग्नराशिं त्यक्त्वा लिप्तादिका क्रिया
अन्ये लग्नस्थपापस्य भावोत्थफलताडितम् ।पुराप्तं शोध्यमायुर्यत् तत्षष्ट्याप्तं विशोधयेत्
तत्रापि लग्ने पापौ चेत् बलिष्ठस्य फलेन तत् ।साम्ये पुष्टफलेनैव क्रिया कार्य्या विचक्षणैः
पापेऽपि लग्ने लग्नेशे कर्त्तव्या त्वियं क्रिया ।अंशायुषि कार्य्यैवं हानिः प्राज्ञैः कथञ्चन
लग्नस्य वीर्य्यादंशोत्थं पैण्डं भानोर्व्वलाधिकात् ।निसर्गोऽयं विधोर्ब्बीर्य्यादायुः साध्यं विचक्षणैः
त्रयश्चेद्बलहीनाः स्युर्जीवोक्तं साधयेत्तदा ।लग्नेन्दोर्लग्नभान्वोश्च सूर्य्येन्दोः समवीर्य्ययोः
तदायुषो यदैक्यार्द्धं तदुक्तं श्रीधरादिभिः ।नाक्षत्रसावनादायुः पृथक्शून्यनगांशकैः
साष्टसूर्य्यांशकै १२८ र्हीनं सौरं वर्षादिकं भवेत्
पथ्याशिनः सधर्म्मा येसच्छीलाढ्या जितेन्द्रियाः ।गुरुदेवद्विजे भक्तास्तेषामेवायुरीरितम्
ये पापा लुब्धकृपणा देवब्राह्मणनिन्दकाः ।बन्धुगुर्व्वङ्गनासक्तास्तेषां मृत्युरकालजः
”इति तोषण्यामायुर्दायाध्यायः