| YouTube Channel

परमामुद्रा (paramAmudrA)

 
वाचस्पत्यम्
Sanskrit
परमामुद्रा स्त्री त्रिपुरायाः पूजाङ्गे मुद्राभेदे “मध्यमे कु-टिले कृत्वा तर्जन्युपरिसंस्थिते अनामिके मध्यगतेतथैव हि कनिष्ठिके सर्वा एकत्र संयोज्य अङ्गुष्ठपरि-पीडिताः एषा तु परमामुद्रा योनिमुद्रेयमीरिता ।एतामुद्रा महेशानि त्रिपुराया मयोदिताः पूजाकालेप्रयोक्तव्या यथानुक्रमयोगतः” तन्त्रसारः