| YouTube Channel

परमाणुः (paramANuH)

 
Wordnet
Sanskrit
Synonyms:
परमाणुः
noun
पदार्थस्य लघुत्तमः कयापि प्रक्रियया अविभाज्यः भागः।
"परमाणुः इति कस्यापि तत्वस्य लघुत्तमः भागः।"
Tamil
Tamil
பரமாணு: : மிகச் சிறிய அணு.
शब्दकल्पद्रुमः
Sanskrit
परमाणुः,
पुं,
(परमः सर्व्वचरमकोऽणुः ।)पृथिव्यादिभूतचतुष्टयानां द्ब्यणुकानामवयवः ।स नित्यः निरवयवः ततः किमपिसूक्ष्मं नास्ति ।यथा, --“नित्यानित्या सा द्वेधा नित्या स्यादणुलक्षणा ।अनित्या तु तदत्या स्यात् सैवावयवयोगिनी
”पारिमाण्डल्यनामकतत्परिमाणन्तु कस्यापिकारणम् यथा, “पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम्
”जलादिपरमाणुरूपस्य नित्यत्वम् पार्थिवपर-माणुरूपस्यानित्यत्वम् पार्थिवपरमाणुरूप-स्यानित्यत्वम् यथा, भाषापरिच्छेदे
“जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम् ।”तैरेव परमाणुभिराद्युपादानैर्द्व्यणुकत्रसरेण्वादि-क्रमेण स्थूलक्षितिजलतेजोमरुतः सृजति परमे-श्वरः यथा आयोजनं परमाणुकर्म्म तथाच सर्गाद्यकालीनं द्ब्यणुकारम्भकपरमाणुकर्म्मयत्नजन्यं प्रयत्नवदात्मसंयोगजन्यं वा कर्म्मत्वात्अस्मदादिशरीरकर्म्मवत् इति कुसुमाञ्जलिः
प्रलयेऽतिस्थूलस्थूलनाशानन्तरं परमाणुक्रिया-विभागपूर्व्वसंयोगनाशादिक्रमेण द्व्यणुकनाशा-त्तिष्ठन्ति परमाणव एवेति यथा, --“दोधूयमानास्तिष्ठन्ति प्रलये परमाणवः ।”इति प्राचीनकारिका
तस्य महत्त्वाभावादतीन्द्रियत्वम् यथा महत्त्वंषड्विधे हेतुरिति भाषापरिच्छेदः
*
कालविशेषः यथा, श्रीभागवते ११ ४-५
“स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।सतो विशेषभुग् यस्तु कालः परमो महान्
अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः ।जालार्करश्म्यवगतः खमेवानुपतन्नगात्
”अस्यार्थः एतदेव प्रपञ्चयति इत्यादिना ।सतः प्रपञ्चस्य परमाणुतां परमाण्ववस्थां योभुङ्क्ते कालः परमाणुः तस्यैवाविशेषंसाकल्यं यो भुङ्क्ते परममहान् अयमर्थःग्रहर्क्षताराचक्रस्थ इत्यादिना यत् सूर्य्यपर्य्यटनंवक्ष्यति तत्र सूर्य्यो यावता परमाणुदेशमति-क्रामति तावान् कालः परमाणुः यावता चद्वादशराश्यात्मकं सर्व्वं भुवनकोषमतिक्रामतिस परममहान् संवत्सरात्मकः तस्यैवावृत्त्यायुगमन्वन्तरादिक्रमेण द्विपरार्द्धान्तत्वमिति तथाच पञ्चमे सूर्य्यगत्यैव कालादिविभागं वक्ष्यति ।इदानीं द्व्यणुकादिलक्षणपूर्व्वकं मध्यमकालावस्थांकथयति द्वौ परमाणू अणुः स्यात् त्रयोऽणव-स्त्रसरेणुः तु प्रत्यक्ष इत्याह जालार्केतिगवाक्षप्रविष्टेष्वर्करश्मिष्ववगतः कोऽसौ योऽति-लघुत्वेन खमेवानुपतन् अगात् गतः नगामिति पाठे खमेवानुपतन्नवगतः तु गांपृथ्वीम् इति श्रीधरस्वामी