| YouTube Channel

परमहंसः (paramahaMsaH)

 
Apte Hindi
Hindi
परमहंसः
पुं*
परम-हंसः -
"उच्चतम कोटि का संन्यासी, वह जिसने भावात्मक समाधि दे द्वारा अपनी इन्द्रियों का दमन करके उनको वश में कर लिया है"
Wordnet
Sanskrit
Synonyms:
परमहंसः
noun
संन्यासीविशेषः। यः जातिरूपवेरो निर्द्वन्दो निराग्रहस्तत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः शुद्धमानसः, प्राणसंधारणार्थं यथोक्तकाले भैक्षमाचरन् लाभालाभौ समौ कृत्वा शून्यागार-देवगृह-तृण-कूट-वल्मीक-वृक्षमूल-कुलाल-शालाग्निहोत्र-नदीपुलिन-गिरि-कुहर-कन्दर-कोटर-निकर-स्थण्डिलेषश्वनिकेतवासी निष्प्रयत्नो निर्ममः शुक्लध्यानपरायणः अध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनाय संन्यासेन देहत्यागं करोति।
"परमहंसेन हि यज्ञोपवीतादिचिह्नानि परित्यज्य कौपीनादिकं धारणीयम्।"
शब्दकल्पद्रुमः
Sanskrit
परमहंसः,
पुं,
(परमः श्रेष्ठः हंसः सोऽहं आत्मायस्य ।) सन्न्यासिविशेषः अस्य लक्षणं यथा ।जातरूपवेरो निर्द्वन्द्वो निराग्रहस्तत्त्वब्रह्ममार्गेसम्यक् सम्पन्नः शुद्धमानसः प्राणसंधारणार्थंयथोक्तकाले भैक्षमाचरन् लाभालाभौ समौकृत्वा शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूल-कुलालशालाग्निहोत्रनदीपुलिनगिरिकुहरकन्दर-कोटरनिकरस्थण्डिलेष्वनिकेतवासी निष्प्रयत्नोनिर्म्ममः शुक्लध्यानपरायणः अध्यात्मनिष्ठः शुभा-शुभकर्म्मनिर्मूलनाय सन्न्यासेन देहत्यागं करोतियः सएव परमहंसो नामेति जीवन्मुक्तिविवेकः
(अयं हि चतुर्व्विधाबधूतेषु श्रेष्ठः यदुक्तंमहानिर्व्वाणतन्त्रे ।“चतुर्णामबधूतानां तुरीयो हंस उच्यते ।त्रयोऽत्ये भोगयोगाढ्यामुक्ताः सर्व्वे शिवोपमाः
”परमहंसेन हि यज्ञोपवीतादिचिह्नानि परि-त्यज्य कौपीनादिकं धारणीयम् यदुक्तं सूत-संहितायां ज्ञानयोगे ।“परमहंसस्त्रिदण्डञ्च रज्जुं गोबालमिश्रितम् ।शिक्यं जलपवित्रञ्च पवित्रञ्च कमण्डलुम्
पक्षिणीमजिनं सूचीं मृत् खनिर्त्री कृपाणिकाम् ।शिखां यज्ञोपवीतञ्च नित्यकर्म्म परित्यजेत्
कौपीनं छादनं वस्त्रं कन्थां शीतनिवारिकाम् ।योगपट्टं वहिर्वस्त्रं पादुकां छत्रमद्भुतम्
अक्षमालाञ्च गृह्णीयात् वैणवं दण्डमव्रणम् ।अग्निरित्यादिभिर्मन्त्रैः कुर्य्यादुद्धूमनं मुदा
आमिति त्रिमिः प्रोच्य परमहंसस्त्रिपुण्ड्रकम्
”अविदुषा परमहंसेन एकदण्डन भाव्यम् ।विदुषा तु दण्डादिकं किमपि धारणीयम्
यदुक्तं निर्णयसिन्धौ “परमहंसस्यैकदण्ड एवसोऽप्यविदुवः विदुषान्तु सोऽपि नास्ति ।न दण्डं शिखां नाच्छादनं धरति परमहंसः
”परमहंसास्तु केवलं प्रणवजपतत्परा एवभवन्ति यदुक्तं सूतसंहितायाम् ।“प्रणवाद्यास्त्रयोवेदाः प्रणवे पर्य्यवस्थिताः ।तस्मात् प्रणवमेवैकं परमहंसः सदा जपेत्
विविक्तदेशमाश्रित्य सुखासीनः समाहितः ।यथाशक्ति समाधिस्थो भवेत् सन्न्यासिनां वरः
”परमहंसास्तु “तत्त्वमसि” इत्यादि महावाक्याव-लम्बनेन आत्मज्ञानानुशीलिनो भवन्ति “सोऽहं”शिवोऽहं” इत्यादि वदन्तस्तत्त्वज्ञानावलम्बनस्यपरिचयं प्रयच्छन्ति एषामध्यक्षो हिस्वामीत्याख्यया प्रसिद्धः एते हि तीर्थभ्रमण-निपुणास्तीर्थस्थानस्थाश्च मतस्य परमहंसस्यशरीरं भूमौ निखातत्वम् यदुक्तं वायु-संहितायाम् ।“मृते दहनं कार्य्यं परमहंसस्य सर्व्वदा ।कर्त्तव्यं खननं तस्य नाशौचं नोदकक्रिया
”परमहंसस्तु दण्डिपरमहंसावधूतपरमहंसभेदेनद्विविघः ये तु दण्डं परित्यज्य पारमहंस्य-व्रतावलम्बनं कुर्व्वन्ति ते दण्डिपरमहंसाः ।ये चावधूतवृत्त्यनुष्ठानेन परमहंसास्ते एवा-वधूतपरमहंसाः परं सर्व्वे एव प्रणवोपासकाःइति
*
शुक्लयजुर्व्वेदगत उपनिषद्विशेषः इति मुक्तिकोपनिषत्
)