| YouTube Channel

परमब्रह्म (paramabrahma)

 
शब्दकल्पद्रुमः
Sanskrit
परमब्रह्म, [न्]
क्ली,
(परमं ब्रह्म ।) परमेश्वरः ।नारायणः यथा ।सत्यतपा उवाच ।“यदेतत् परमं ब्रह्म त्वया प्रोक्तं महामुने ! ।तस्य रूपं जानन्ति योगिनोऽपि महात्मनः
अनामगोत्ररहितममूर्त्तं मूर्त्तिवर्ज्जितम् ।कथं तज्ज्ञायते ब्रह्म संज्ञानामविवर्ज्जितम्
तत्तस्य संज्ञां कथय येन जानाम्यहं गुरो !
”दुर्व्वासा उवाच ।“यदेतत् परमं ब्रह्म वेदवादेषु पठ्यते ।स देवः पुण्डरीकाक्षः स्वयं नारायणः परः
यज्ञैर्विविधैरिष्टैर्दानैर्दत्तैश्च सत्तम ! ।प्राप्यते परमो देवः स्वयं नारायणो हरिः
”इति वराहपुराणम्