| YouTube Channel

परपाकरतः (parapAkarataH)

 
शब्दकल्पद्रुमः
Sanskrit
परपाकरतः,
पुं,
(परस्य पाके रतः ।) परपाक-रुचिः प्रातः पञ्चयज्ञान्निर्व्वर्त्य परान्नभोजी ।यथा, -- मिताक्षरायां प्रायश्चित्ताध्याये ।“पञ्चयज्ञान् स्वयं कृत्वा परान्नमुपजीवति ।सततं प्रातरुत्थाय परपाकरतस्तु सः
*
परपाकनिवृत्तपरपाकरतयोरन्नभोजने दोषोयथा, --“परपाकनिवृत्तस्य परपाकरतस्य ।अपचस्य भुक्त्वान्नं द्विजश्चान्द्रायणञ्चरेत्
”इति मिताक्षरायां प्राथश्चित्ताध्यायः