| YouTube Channel

परदारः (paradAraH)

 
शब्दकल्पद्रुमः
Sanskrit
परदारः, (परस्य दाराः ।) परभार्य्या तद्गमनेदोषो यथा, कर्म्मलोचनम्
“परदाररताश्चैव परद्रव्यहराश्च ये ।अधोऽधो नरके यान्ति पीड्यन्ते यमकिङ्करैः
”“ब्राह्मणः क्षत्त्रियो वैश्यो यो रतः परयोषिति ।याति तस्यापूजितस्य रुष्टा लक्ष्मीर्गृहादपि
इहातिनिन्द्यः सर्व्वत्र नाधिकारी स्वकर्म्मसु ।परत्रैबान्धकूपे यावद्वर्षशतं वसेत्
अपि ।“किन्तज्जपेन तपसा मौनेन व्रतेन ।सुरार्च्चनेन तीर्थेन स्त्रीभिर्यस्य मनो हृतम्
सर्व्वमायाकरण्डश्च धर्म्ममार्गार्गलं नृणाम् ।व्यवधानञ्च तपसां दोषाणामाश्रमं परम्
कर्म्मबन्धनिबद्धानां निगडं कठिनं सुत ! ।प्रदीपरूपं कीटानां मीनानां वडिशं यथा
विषकुम्भं दुग्धमुखमारम्भे मधुरोपमम् ।परिणामे दुःखबीजं सोपानं नरकस्य
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३० ६१अध्यायः
*
“यस्तु पाणिगृहीतीं तां हित्वान्यां योषितं व्रजेत् ।अगम्यागमनं तद्धि सद्यो नरककारणम्
नित्यं नैमित्तिकं काम्यं यागयोग्यव्रतादिकम् ।चेत्रतीर्थाटनं तस्मिन् वासो धर्म्मक्रियादिकम्
स्वाध्यायादि तपो दैवं पैत्रं कर्म्म वरानने ! ।यात्येतन्निष्फलं सर्व्वं परस्त्रीगमनान्नृणाम्
परदाराभिगमनात् कोटि एकादशीव्रतम् ।अपरं किमु वक्तव्यं निष्फलं निरये स्थितिः
सत्यं सत्यं पुनः सत्यं सत्यमेव ब्रवीमि ते ।परयोनौ पतन् बिन्दुः कोटिपूजां विनाशयेत्
”इति पाद्मोत्तरखण्डे ७५ अध्यायः
*
अपि ।“त्याज्यं धर्म्मान्वितैर्नित्यं परदारोपसेवनम् ।नयन्ति परदारा हि नरकानेकविंशतिम्
सर्व्वेषामेव वर्णानामेष धर्म्मो ध्रुवोऽन्धक !
एवं पुरा सुरपते ! देवर्षिरसितोऽव्ययः ।प्राह धर्म्मव्यवस्थानं खगेन्द्रायारुणाय हि ।तस्मात् सुदूरतो वर्जेत् परदारान् विचक्षणः ।नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्
”इति वामने ६३ अध्यायः