| YouTube Channel

परत्वं (paratvaM)

 
Apte 1890
English
परत्वं 1 The following of another letter, posteriority.
2 Distinction, difference.
3 Remoteness.
4 Consequence, result.
5 Enmity, hostility.
6 Priority of place or time, proximity, one of the 24 guṇas of the Vaiśeṣikas.
शब्दकल्पद्रुमः
Sanskrit
परत्वं,
क्ली,
परस्य भावः परता न्यायमते तद्-द्विविधम् दैशिकम् तत्तु बहुतरसूर्य्य-संयोगज्ञानजन्यगुणः कालिकम् तच्च बहु-तरकालान्तरितत्त्वज्ञानजन्यगुणः एतद्द्वयंमूर्त्तपदार्थगुणः दैशिकपरत्वस्यासमवायि-कारणं दिक्शरीरसंयोगः कालपरत्वस्यासम-वायिकारणं कालपिण्डसंयोगः ते अपेक्षा-बुद्धिजन्ये तन्नाशनाश्ये यथा, --“परत्वञ्चापरत्वञ्च द्बिविधं परिकीर्त्तितम् ।दैशिकं कालिकञ्चापि मूर्त्त एव तु दैशिकम्
परत्वं सूर्य्यसंयोगभूयस्त्वज्ञानतो भवेत् ।अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम्
तयोरसमवायी तु दिक्संयोगस्तदाश्रये ।दिवाकरपरिष्पन्दपूर्व्वोत्पन्नत्वबुद्धितः
परत्वमपरत्वन्तु तदनन्तरवुद्धितः ।अत्र त्वसमवायी तु संयोगः कालपिण्डयोः
अपेक्षा बुद्धिनाशाच्च नाशस्तेषां निरूपितः ।”इति भाषापरिच्छेदः