परत्व (paratva)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English परत्व paratva strangeness
परत्व paratva difference
परत्व paratva superiority to
परत्व paratva distance
परत्व paratva posteriority
परत्व paratva remoteness
परत्व paratva consequence
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishपरत्वम् [paratvam], 1 The following of another letter, posteriority.
Distinction, difference.
Remoteness.
Consequence, result.
Enmity, hostility.
Priority of place or time, proximity, one of the 24 guṇas of the Vaiśeṣikas.
Apte 1890
EnglishMonier Williams Cologne
EnglishBenfey
EnglishShabdartha Kaustubha
Kannadaपरत्व
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶ್ರೇಷ್ಠತೆ/ಉತ್ಕೃಷ್ಟತೆ/ಸರ್ವೋತ್ತಮತ್ವ
निष्पत्तिः - > "त्वः"(५-१-११९)
व्युत्पत्तिः - > परस्य भावः
प्रयोगाः - > "परत्वमाद्यं प्रतिपन्नषड्गुणः"
उल्लेखाः - > याद० १४-७४
Abhyankara Grammar
Englishपरत्व posteriority
mention afterwards
the word is frequently used in works on grammar in connection with a rule which is mentioned in the treatise after another rule
the posterior rule is looked upon as stronger than the prior one, and is given priority in application when the two rules come in conflict although technically they are equally strong: cf. परत्वादल्लोप:
M. Bh. on I. 1.4 Vaart 7
'परत्वाच्छीभाव: I. 1.11 etc.
Sanskrit Tibetan
Tibetangzhan nyid
परत्व
शब्दकल्पद्रुमः
Sanskritपरत्वं, परस्य भावः । परता । न्यायमते तद्-द्विविधम् । दैशिकम् १ । तत्तु बहुतरसूर्य्य-संयोगज्ञानजन्यगुणः । कालिकम् २ तच्च बहु-तरकालान्तरितत्त्वज्ञानजन्यगुणः । एतद्द्वयंमूर्त्तपदार्थगुणः । दैशिकपरत्वस्यासमवायि-कारणं दिक्शरीरसंयोगः । कालपरत्वस्यासम-वायिकारणं कालपिण्डसंयोगः । ते अपेक्षा-बुद्धिजन्ये । तन्नाशनाश्ये च । यथा, --“परत्वञ्चापरत्वञ्च द्बिविधं परिकीर्त्तितम् ।दैशिकं कालिकञ्चापि मूर्त्त एव तु दैशिकम् ॥
परत्वं सूर्य्यसंयोगभूयस्त्वज्ञानतो भवेत् ।अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥
तयोरसमवायी तु दिक्संयोगस्तदाश्रये ।दिवाकरपरिष्पन्दपूर्व्वोत्पन्नत्वबुद्धितः ॥
परत्वमपरत्वन्तु तदनन्तरवुद्धितः ।अत्र त्वसमवायी तु संयोगः कालपिण्डयोः ॥
अपेक्षा बुद्धिनाशाच्च नाशस्तेषां निरूपितः ।”इति भाषापरिच्छेदः ॥
वाचस्पत्यम्
Sanskritपरत्व परस्य भावः । वैशेषिकोक्तौ दव्याश्रिते गुणभेदेतच्च द्विविधं दैशिकं कालिकञ्च तदेतत् कणादसूत्रोप-स्करवृत्त्योर्निर्णीतं यथा “एकदिक्काभ्यामेककालाभ्यांसन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च” सू० ।“इदानीमुद्देशक्रमप्राप्ते परत्वापरत्वे परस्परानुबद्धव्य-वहारकारणतया शिष्यबुद्धिवैशद्यार्थं संक्षेपार्थञ्चैकग्रन्थे-नाह परमपरञ्चेति भावप्रधानो निर्देशः, उत्पद्यतइति शेषः, यद्वा परमपरञ्चेति व्यवहार इति शेषः, इतिरध्याहार्यः । एका दिग् ययोस्तावेकदिकौ ताभ्या-मेकदिक्काभ्यां पिण्डाभ्यामित्यर्थः तुल्यदेशावप्येकदिक्कौभवतः न तु ताभ्यां परत्वापरत्वे उत्पद्येते व्यवह्रियेतेवेत्यत उक्तं सन्निकृष्टविप्रकृष्टाभ्यामिति, सन्निकर्षः सं-युक्तसंयोगाल्पत्वम्, विप्रकर्षस्तद्भूयस्त्वं, तद्वद्भ्यामित्यर्थः ।एतेन समवायिकारणमुक्तं, दिक्पिण्डसंयोगस्त्वसमवायि-कारणं, तथा हि प्राङ्मुखस्य पुरुषस्य प्राच्यवस्थितयोःपिण्डयोरेकस्मिन् संयुक्तसंयोगभूयस्त्वमपरस्मिन् संयुक्त-संयोगाल्पतरत्वञ्चापेक्ष्य परत्वमपरत्वञ्चोत्षद्यते, असम-वायिकारणमुक्तम्, सन्निकृष्टविप्रकृष्टाभ्यामिति विषयेणविषयिणं प्रत्ययमुपलक्षयति तथा चापेक्षाबुद्धेर्निमित्त-कारणत्वमुक्तम्, एकदिगवस्थितयोरेव परत्वापरत्वे उत्-पद्येते इति न सर्वत्रोत्पत्तिः, एकस्यैव द्रष्टुरपेक्षावुद्धिःसमुत्पद्यते इति न सर्वथोत्पत्तिः, अपेक्षाबुद्धिनियमान्नसर्वदोत्पत्तिः कारणशक्तेरुत्पन्नयोः प्रत्यक्षसिद्धत्वान्नपरस्पराश्रयत्वम्, अन्यथा हि नोत्पद्येयातां न वा प्रतीये-यातां परस्परापेक्षायां हि द्वयोरनुत्पत्तिरप्रतीतिश्च स्यात्प्रतीयेते च परत्वापरत्वे, प्रतीतिश्च तयोर्नोत्पत्तिमन्तरे-णेति । एककालाभ्यामिति कालिकपरत्वापरत्वे अभिप्रेत्यतत्रैककालाभ्यामिति एको वर्त्तमानः कालोययीर्युवस्थ-विरपिण्डयोः तावेककालौ ताभ्यामेककालाभ्यामित्यर्थः ।सम्निकर्षोऽल्पतरतपनपरिस्पन्दान्तरितजन्मत्वं, विप्रकर्षश्चबहुतरतपनपरिस्पन्दान्तरितजन्मत्वम्, अत्रापि विषयेणविषयिणीं बुद्धिमुपलक्षयति तेन युवस्थविरपिण्डौ सम-वायिकारणे, कालविण्डसंयोगश्चासमवायिकारणम्, अल्प-तरतपनपरिस्पन्दान्तरितजन्मत्वबुद्धिरपरत्वे बहुतरतप-नपरिस्पन्दान्तरितजन्मत्वबुद्धिः परत्वे निमित्तकारणम् ।एते च परत्वापरत्वे अनियतदिग्देशयोरपि पिण्डयी-रुत्पद्येते, तत्र दैशिकपरत्वापरत्वयोः सप्तधा विनाशःउत्पादस्तु युगपदेव द्वयोरन्यथाऽन्योन्याश्रयः स्यात्, अपेक्षाबुद्धिनाशात्, १ संयोगस्यासमवायिकारणस्य ना-शात्, २ द्रव्यस्य च समवायिकारणस्य नाशात्, ३ निमि-त्तसमवायिकारणयोर्नाशात्, ४ समवाय्यसमवायिकारण-योर्नाशात्५ निमित्तासमवायिकारणयीर्नाशात्, ६ नि-मित्तनाशासमवायिकारणनाशसमवायिकारणनाशेभ्यः ७ ।तत्रापेक्षाबुद्धिनाशात् १ तावत्, परत्वोत्पत्तिः परत्वसा-मान्यज्ञानं ततोऽपेक्षाबुद्धिविनाशस्तद्विनाशात् परत्व-विशिष्टद्रव्यज्ञानकाले परत्वनाशः, द्वित्वनाशवदेव सर्व-मूहनीयम् । असमवायिकारणनाशादपि ३ तद्यथा यदै-वापेक्षाबुद्धिस्तदैव परत्वाधारे पिण्डे कर्म्म ततो यदैवपरत्वोत्पत्तिस्तदैव दिक्पिण्डविभागस्ततो यदा परत्वसा-मान्यज्ञानं तदा दिक्पिण्डसंयोगनाशः ततः सामान्य-ज्ञानादपेक्षाबुद्धिनाशस्तदैव दिक्पिण्डसंयोगनाशत् पर-त्वापरत्वयोर्नाशः, तत्र चापेक्षाबुद्धिनाशस्य परत्वनाशसम-कालत्वान्न तन्नाशकत्वम् । नन्वसमवायिकारणनाशादपिगुणनाशे आत्ममनःसंयोगनाशादपि संस्कारादृष्टादोनांविनाशे बहु व्याकुलं स्यादिति चेन्न विप्रकृष्टत्वेन पर-त्वस्य व्यापनात् परत्वाधारस्यान्यत्र गमने विप्रकर्षाभावात्परत्वनिवृत्तिरावश्यकी न च तदा नाशकान्तरनस्तीत्य-न्यथाऽनुपपत्त्या संयोगनाश एव नाशकः कल्प्यते, सं-स्कारादृष्टादेः कार्य्यस्य स्मृतिसुखादेश्चिरेणापि दर्शनान्नतन्नाशकल्पना । उपलक्षणञ्चैतत् अवधेर्द्रष्टुश्च तत्तद्देशसं-योगनाशादपि परत्वापरत्वे विनश्यतः युक्तेस्तुल्यत्वात् ।समवायिकारणनाशादपि क्वचित् परत्वनाशः ३ तथा हियदा पिण्डावयवे समुत्पन्नेन कर्मणाऽवयवान्तराद्विभाग-स्तदैवापेक्षाबुद्धिः, विभागात् पिण्डारम्भकसंयोगनाशःपरत्वोत्पत्तिः, अग्रिमक्षणे संयोगनाशाद्द्रव्यनाशः पर-त्वसामान्यज्ञानं, द्रव्यनाशात् परत्वनाशीऽपेक्षाबुद्धिनाशश्चसामान्यज्ञानात्, तथाच यौगपद्यान्नापेक्षाबुद्धिनाशात्परत्वनाश इति, क्वचिद्द्रव्यनाशापेक्षाबुद्धिवाशाभ्यांपरत्वनाशः ४ तद्यथा पिण्डावयवे कर्मापेक्षाबुद्धेरुत्पाद-स्ततोऽवयवान्तरविभागः परत्वोत्पत्तिः तत आरम्भक-संयोगनाशसामाम्यज्ञाने ततो द्रव्यनाशापेक्षाबुद्धिनाशौततश्च परत्वनाशः । क्वचिद्द्रव्यस्य संयोगस्य च नाशाभ्यांपरत्वनाशः ५ तद्यथा यदा द्रव्यावयवविभागस्तदैव पिण्ड-कर्मापेक्षाबुद्ध्योरुत्पादस्तदनन्तरमवयवसंयोगवाशदिक्पिण्डविभागपरत्वोत्पत्तयः ततो द्रव्यनाशदिक्पिण्डसंयोगवाश-परत्वसामान्यबुद्धयः ततो द्रव्यनाशदिकपिण्डसंयोगना-शाभ्यां परत्वनाशः सामान्यबुद्धेरपेक्षाबुद्धिनाश इति ।क्वचित् संयोगनाशापेक्षाबुद्धिनाशाभ्यां परत्वनाश ६ तदुयथा परत्वोत्पत्तिपिण्डकर्मणी सामान्यज्ञानविमागौ अ-पेक्षाबुद्धिनाशदिक्पिण्डसंयोगनाशौ ततः परत्वनाशः ।कचित् समवाय्यसमवायिनिमित्तनाशेभ्यः ७ तद्यथा पर-त्वोत्पत्तिपिण्डावयवविभागपिण्डकर्माणि युगपत्, तद-नन्तरं परत्वसामान्यज्ञानावयवसंयोगनाशदिक्पिण्डवि-मागाः तदनन्तरसपेक्षाबुद्धिनाशद्रव्यनाशदिक्पिण्डसंयोग-नाशेभ्यो युगपदुत्पन्नेभ्यः परत्वस्यापरत्वस्य वा दैशिकस्यनाशः । कालकृतयोस्तु परत्वापरत्वयोरसमवायिकारण-नाशाधीनो नाशो नास्ति दैशिकयोर्दिक्पिण्डसंयोगनाशेसन्निकर्षविप्रकर्षनाशो यथा न तथा कालिकयोरिति तयोःसमवायिकारणनाशात्१ अपेक्षाबुद्धिनाशात्२ द्वाभ्या-ञ्चेति ३ त्रयः पक्षाः पूर्ववदूहनीयाः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
